________________
सूर्यप्रज्ञ- पूर्ववत् स्वयं परिपूर्ण परिभावनीयं 'तत्थ 'मित्यादि, तत्र जम्बूद्वीपे णमिति प्राग्वत्, 'अयं भारहे चेव सूरिप'इति प्राभूते तिवृत्तिः सर्वबाह्यस्य मण्डलस्य दक्षिणस्मिन्नर्द्धमण्डले यश्चारं चरितुमारभते स भरतक्षेत्रप्रकाशकत्वाद्भारत इत्युच्यते, यस्त्वितर
३ प्राभृत(मल०)
स्तस्यैव सर्वबाह्यस्य मण्डलस्योत्तरस्मिन्नर्द्धमण्डले चारं चरति स ऐरावतक्षेत्रप्रकाशकत्वादैरावतः, तत्रायं प्रत्यक्षत उप- प्राभृतं ॥२२॥
लभ्यमानो जम्बूद्वीपस्य सम्बन्धी भारतः सूर्यो यस्मिन् मण्डले परिभ्रमति तत्तन्मण्डलं चतुर्विशत्यधिकेन शतेन छित्त्वाविभज्य चतुर्विशत्यधिकशतसङ्ख्यान् भागान् तस्य २ मण्डलस्य परिकल्प्येत्यर्थः, सूर्यश्च प्राचीनापाचीनायतया उदगद|क्षिणायतया च जीवया-प्रत्यञ्चया दवरिकया इत्यर्थः, तन्मण्डलं चतुर्भिर्भागैर्विभज्य दक्षिणपौरस्त्ये दक्षिणपूर्वे आग्नेये है कोणे इत्यर्थः 'चउन्भागमंडलंसि'त्ति प्राकृतत्वात्पदव्यत्ययो मण्डलचतुर्भागे-तस्य तस्य मण्डलस्य चतुर्थे भामे सूर्य-- संवत्सरसत्कद्वितीयषण्मासमध्ये द्विनवतिं सूर्यगतानि-द्वानवतिसङ्ख्यानि मण्डलानि स्वयं सूर्येण गतानि-चीर्णानि, किमुक्तं भवति -पूर्व सर्वाभ्यन्तरान्मण्डलानिष्कामता स्वचीर्णानि प्रतिचरतीति गम्यते, एतदेव ब्याचष्टे-'जाई सूरिए अप्पणा चिण्णं पडियरई' इति यानि सूर्य आत्मना-स्वयं पूर्व सर्वाभ्यन्तरान्मण्डलान्निष्क्रमणकाले इतिशेषः, चीर्णानि प्रतिचरति, तानि च द्विनवतिसक्यानि मण्डलानि चतुर्भागरूपाणि चीर्णानि प्रतिचरति, न परिपूर्णचतुर्भागमात्राणि, किन्तु स्वस्वमण्डलगतचतुर्विशत्यधिकशतसत्काष्टादशाष्टादशभागप्रमितानि, ते चाष्टादशाष्टादशभागा न सर्वेष्वपि मण्ड-1 ॥ २२॥ कालेषु प्रतिनियते एव देशे, किन्तु कापि मण्डले कुत्रापि, केवलं दक्षिणपौरस्त्यरूपचतुर्भागमध्ये ततो 'दाहिणपुरस्थिमंसि-11
चउभागमंडलंसी'त्युक्तम्, एवमुत्तरेष्वपि मण्डलचतुर्भागव्वष्टादशभागप्रमितत्वं भावनीयं, स एव भारतः सूर्यस्तेषामेव
645454545453
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org