________________
सूर्यप्रज्ञप्तिवृत्तिः |
( मल० )
॥२४९॥
Jain Education International
समापन्नो भवति तदा स ग्रहः पौरस्त्याद् भागात - पूर्वेण भागेन प्रथमतश्चन्द्रमसं समासादयति समासाद्य च यथासम्भवं योगं युनक्ति, यथासम्भवं योगं युक्त्वा पर्यन्तसमये यथासम्भवं योगमनुपरिवर्त्तयति, यथासम्भवमन्यस्य ग्रहस्य योगं समर्पयितुमारभते इति भावः, योगमनुवर्त्य च स्वेन सह योगं विप्रजहाति, किं बहुना ?, विगतयोगी चापि भवति ।। अधुना सूर्येण सह नक्षत्रस्य योगचिन्तां करोति - 'ता जया णमित्यादि, ता इति प्राग्वत् यदा सूर्ये गतिसमापन्नम| पेक्ष्याभिजिन्नक्षत्रं गतिसमापन्नं भवति तदा तदभिजिन्नक्षत्रं प्रथमतः पौरस्त्याद् भागात् सूर्य समासादयति समासाद्य चतुरः परिपूर्णान् अहोरात्रान् पञ्चमस्य चाहोरात्रस्य षड् मुहूर्त्तान् यावत् सूर्येण सह योगं युनक्ति, एवंप्रमाणं च कालं यावत् योगं युक्त्वा पर्यन्तसमये योगमनुपरिवर्त्तयति, श्रवणनक्षत्रस्य योगं समर्पयितुमारभते इति भावः, अनुपरिवर्त्य च स्वेन सह योगं विजहाति विप्रजहाति, किं बहुना ?, विगतयोगी चापि भवति, 'एव' मित्यादि, एवमुक्तेन प्रकारेण पञ्चदशमुहूर्त्तानां शतभिषक्प्रभृतीनां षट् अहोरात्राः सप्तमस्य अहोरात्रस्य एकविंशतिर्मुहूर्त्ताः त्रिंशन्मुहूर्त्तानां श्रवणादीनां त्रयोदश अहोरात्राश्चतुर्दशस्य अहोरात्रस्य द्वादश मुहूर्त्ताः पञ्चचत्वारिंशन्मुहूर्त्तानामुत्तरभद्रपदादीनां विंशतिरहोरात्रा एकविंशतितमस्य चाहोरात्रस्य त्रयो मुहूर्त्ताः क्रमेण सर्वे तावद् भणितव्याः यावदुत्तरापाढानक्षत्रं, तत्रोत्तराषाढा नक्षत्रगतमभिलापं साक्षाद्दर्शयति- 'ता जया ण' मित्यादि, सुगमं एतदनुसारेण शेषा अध्यालापाः स्वयं वक्तव्याः, सुगमत्वात्तु नोपदर्श्यन्ते । सम्प्रति सूर्येण सह ग्रहस्य योगचिन्तां करोति- 'ता जया ण' मित्यादि सुगमं ॥ अधुना चन्द्रादयो नक्षत्रेण मासेन कति मण्डलानि चरन्तीत्येतन्निरूपयितुकाम आह
For Personal & Private Use Only
१३ प्राभृते चन्द्रादीनां गतितारतसू ८४
॥२४९॥
www.jainelibrary.org