________________
ॐॐॐॐॐॐॐॐ
पञ्चत्रिंशदधिकानि ततो भवति परस्परं पञ्चभागकृतो विशेषः, 'ता जया ण'मित्यादि, ता इति पूर्ववत् , यदा णमिति | वाक्यालङ्कारे चन्द्रं गतिसमापन्नमपेक्ष्याभिजिन्नक्षत्रं गतिसमापन्नं भवति तदा पौरस्त्याद् भागात् प्रथमतोऽभिजिन्नक्षत्र चन्द्रमसं समासादयति एतच्च प्रागेव भावितं समासाद्य च नव मुहूर्तान् दशमस्य च मुहूर्तस्य सप्तविशति सप्तषष्टिभागान् चन्द्रेण सार्द्ध योगं युनक्ति-करोति, एतदपि प्रागेव भावितं, एवंप्रमाणं कालं योगं युक्त्वा पर्यन्तसमये योगमनुपरिवर्त्तयति, श्रवणनक्षत्रस्य योगं समर्पयतीति भावः, योगं च परावर्त्य स्वेन सह योग विजहाति, किं बहुना ?, विगतयोगी चापि भवति, 'ता जया ण'मित्यादि, ता इति प्राग्वत् , यदा चन्द्रं गतिसमापन्नमपेक्ष्य श्रवणनक्षत्रं
गतिसमापन्नं भवति तदा तत् श्रवणनक्षत्रं प्रथमतः पौरस्त्याद् भागात्-पूर्वेण भागेन चन्द्रमसं समासादयति, &समासाद्य चन्द्रेण साई त्रिंशतं मुहान यावत् योगं युनक्ति, एवंप्रमाणं च कालं यावत् योगं युक्त्वा
पर्यन्तसमये योगमनुपरिवर्तयति, धनिष्ठानक्षत्रस्य योगं समर्पयितुमारभते इत्यर्थः, योगमनुपरिवर्त्य च |स्वेन सह योगं विप्रजहाति, किं बहुना ?, विगतयोगी चापि भवति, 'एव'मित्यादि एवमुक्तेन प्रकारेण एतेनानन्तरोपदर्शितेनाभिलापेन यानि पञ्चदश मुहर्तानि शतभिषगप्रभृतीनि नक्षत्राणि यानि त्रिंशन्मुहूत्तानि धनिष्ठाप्रभृतीनि यानि च पञ्चचत्वारिंशन्मुहर्तानि उत्तरभद्रपदादीनि तानि सर्वाण्यपि क्रमेण तावद् भणितव्यानि यावदुत्तरापाढा, तत्राभिलापः सुगमत्वात् स्वयं भावनीयो ग्रन्थगौरवभयात नाख्यायते इति । सम्पति ग्रहमधिकृत्य योगचिन्तां करोति-'ता जया ण'मित्यादि ता इति पूर्ववत् यदा णमिति वाक्यालङ्कारे चन्द्रं गतिसमापन्नमपेक्ष्य ग्रहो गति
6-26
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org