________________
A L
CRO CCE5COM
REALER
रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्धमण्डलाभ्यां-एकेन मण्डलेनेति भावः कति रात्रिन्दिवानि लभ्यन्ते ?, राशित्रय-11 स्थापना-१७६८ । १८३० । २ । अत्रान्त्येन राशिना द्विकलक्षणेन मध्यस्य राशेर्गुणनं, जातानि पत्रिंशत्सहस्राणि षष्ट्यसाधिकानि ३६०६०, तेषामायेन राशिना भागहरणं, लब्धे द्वे रात्रिन्दिवे, शेपं तिष्ठति चतुर्विंशत्यधिकं शतं १२४, तत्रैकैमकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्त्ता इति तस्य त्रिंशता गुणने जातानि सप्तत्रिंशच्छतानि विंशत्यधिकानि ३७२०, तेषां
सप्तदशभिः शतैरष्टषष्ट्यधिकः भागे हृते लब्धौ द्वौ मुहत्तौं, ततः शेषच्छेद्यराशिच्छेदकराश्योरटकेनापवर्तना जातश्छेद्यो । राशिस्त्रयोविंशतिः छेदकराशि शते एकविंशत्यधिके, आगतं मुहूर्तस्यैकविंशत्यधिकशतद्वयभागांस्त्रयोविंशतिः, एतावता| कालेन द्वे अर्द्धमण्डले परिपूर्णे चरति, किमुक्तं भवति ?-तावता कालेन परिपूर्णमेकं मण्डलं चन्द्रश्चरति, तदेवं मण्डलकालपरिज्ञानं कृतं, साम्प्रतमेतदनुसारेण मुहूर्तगतिपरिमाणं चिन्त्यते-तत्र ये द्वे रात्रिन्दिवे ते मुहर्तकरणार्थ त्रिंशता| गुण्येते, जाताः षष्टिर्मुहूर्ताः ६०, तत उपरितनौ द्वौ मुहूत्तौ प्रक्षिप्तौ जाता द्वाषष्टिः ६२, एपा सवर्णनार्थं द्वाभ्यां शताभ्यामेकविंशत्यधिकाभ्यां गुण्यते गुणयित्वा चोपरितना त्रयोविंशतिः क्षिप्यते जातानि त्रयोदश सहस्राणि सप्त शतानि पञ्चविंशत्यधिकानि १३७२५, एतत् एकमण्डलकालगतमुहूर्तसत्कै कविंशत्यधिकशतद्वयभागानां परिमाणं, ततस्त्रैराशिककविसरो-यदि त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैरेकविंशत्यधिकशतद्वयभागानां मण्डलभागा एका शतसहस्रमष्टानवतिः शतानि लभ्यन्ते तत एकेन मुहूर्तेन किं लभामहे ?, राशित्रयस्थापना । १३७२५ । १०९८०० ।। इहाद्यो राशिर्मुहूर्तगतैकविंशत्यधिकशतद्वयभागरूपस्ततः सवर्णनार्थमन्त्यो राशिरेककलक्षणो द्वाभ्यां शताभ्यामेकविंश
२--
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org