________________
CCPROCACK
सर्ववाह्यानन्तरेऽक्तिने द्वितीयमण्डले चार चरन् विवक्षितः, ततोऽधिकृतसूत्रोपनिपातः, तृतीयायनगते चन्द्रे पश्चिमे | भागे प्रविशति वाह्यानन्तरस्यार्वाग्भागवर्तिनः पाश्चात्यस्यार्द्धमण्डलस्य एकचत्वारिंशत् सप्तषष्टिभागास्ते वर्तन्ते यान चन्द्रः आत्मना परेण च चीर्णान् प्रतिचरति त्रयोदश च सप्तषष्टिभागास्ते यान् चन्द्रः परेणैव चीर्णान् प्रतिचरति अन्ये ध त्रयोदश सप्तषष्टिभागास्ते यान् चन्द्रः स्वयं परेण च चीर्णान् प्रतिचरति, एतावता परिभ्रमणेन बाह्यानन्तरमक्तिनं पाश्चात्यमर्द्धमण्डलं परिसमाप्तं भवति, तदनन्तरं च तस्मिन्नेव तृतीयायनगते चन्द्रे पौरस्त्यभागे प्रविशति सर्वबाह्यादकिनस्य तृतीयस्य पौरस्त्यार्द्धमण्डलस्य एकचत्वारिंशत् सप्तषष्टिभागा यान् चन्द्र आत्मना परेण च चीर्णान् प्रतिचरति,
ततः परमन्ये ते त्रयोदश भागा यान् चन्द्रः परेणैव चीर्णान् प्रतिचरति, अन्ये च ते त्रयोदश भागा यान् चन्द्र आत्मना ५परेण च चीर्णान् प्रतिचरति, एतावता सर्वबाह्यान्मण्डलादाक्तनं तृतीयं पौरस्त्यमर्द्धमण्डलं परिसमाप्तं भवति, सप्तष
टेरपि भागानां परिपूर्णतया जातत्वात् , 'ता'इत्यादि, ततस्तस्मिन्नेव तृतीयायनगते चन्द्रे पश्चिमे भागे प्रविशति सर्व | बाह्यान्मण्डलादाक्तनस्य चतुर्थस्य पाश्चात्यस्यार्द्धमण्डलस्याप्टौ सप्तपष्टिभागा एकं च सप्तपष्टिभागमेकत्रिंशद्धा छित्त्वा तस्य | सत्का अष्टादश भागास्ते वर्तन्ते यान् चन्द्र आत्मना परेण च चीर्णान् प्रतिचरति, एतावता च परिभ्रमणेन चान्द्रो| मासः परिपूर्णो जातः । सम्पति पूर्वोक्तमेव स्मरयन् चन्द्रमासगतमुपसंहारमाह-एवं खलु चंदेणं मासेण'मित्यादि। एवं-उक्तेन प्रकारेण खलु-निश्चितं चान्द्रेण मासेन चन्द्रे त्रयोदश चतुष्पञ्चाशत्कानि जातानि द्वे च त्रयोदशके यानि चन्द्रः परेणैव चीर्णानि प्रतिचरति, वर्तमानकालनिर्देशः सकलकालयुगस्य प्रथमे चान्द्रे मासे एवमेव द्रष्टव्यमिति ज्ञापनार्थः,
CCCCC
dain Education International
For Personal & Private Use Only
www.jainelibrary.org