SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ REC चतुर्दशपर्यन्तानि सप्तार्द्धमण्डलानि चीर्णानि, पश्चिमभागे च तृतीयादीन्येकान्तरितानि त्रयोदशपर्यन्तानि षडर्द्धमण्ड-12 लानि, तत्र पूर्वभागे पश्चिमभागे वा यत् प्रतिमण्डलं स्वयं चीर्णमन्यचीर्ण वा चरति तन्निरूपयति-ता दोचायणगए' इत्यादि, ता इति पूर्ववत् द्वितीयायनगते चन्द्रे पौरस्त्यात् भागान्निष्कामति, किमुक्तं भवति ?-पौरस्त्ये भागे चारं दाचरति, सप्त चतुःपञ्चाशत्कानि भवन्ति यानि चन्द्रः परस्येति तृतीयार्थे षष्ठी परेण सूर्यादिना चीर्णानि प्रतिचरति, सप्त च त्रयोदशकानि भवन्ति यानि चन्द्र आत्मनैव चीर्णानि प्रतिचरति, इयमत्र भावना-मेरोः पूर्वस्यां दिशि यो भागः भास पूर्वभागो यश्चापरस्यां दिशि स पश्चिमभागः, तत्र पूर्वभागे सप्तस्वपि द्वितीयादिष्वेकान्तरितेषु चतुर्दशपर्यन्तेषु सप्तषष्टिभागप्रविभक्तेषु प्रत्येकं चतुःपञ्चाशतं सप्तपष्टिभागान् चन्द्रः परेण सूर्यादिना चीर्णान् प्रतिचरति, त्रयोदश त्रयोदश सप्तपष्टिभागान स्वयंचीर्णानिति, 'ता दोचायणगए'इत्यादि, तस्मिन्नेव चन्द्रमसि द्वितीयायनगते पश्चिमभागान्निष्कामति-पश्चिमभागे चारं चरति, षट् चतुःपञ्चाशत्कानि भवन्ति यानि चन्द्रः 'परस्मेति परेण सूर्यादिना चीर्णानि प्रतिचरति, पट् त्रयोदशकानि यानि चन्द्रः स्वयंचीर्णानि प्रतिचरति, अत्रापीयं भावना-पश्चिमे भागे षट्स्वपि तृतीयादिष्वे-४ कान्तरितेषु त्रयोदशपर्यन्तेषु अर्द्धमण्डलेषु सप्तषष्टिभागप्रविभक्तेषु प्रत्येकं चतुःपञ्चाशतं चतुःपञ्चाशतं सप्तपष्टिभागान् । परचीर्णान् चरति, त्रयोदश सप्तपष्टिभागान् स्वयंचीर्णानिति, 'अवराई खलु दुवे'इत्यादि, अपरे खलु द्वे त्रयोदशके | तस्मिन्नयने स्तो ये चन्द्रः केनाप्यसामान्ये-केनाप्यनाचीर्णपूर्व स्वयमेव प्रविश्य चार चरति, 'कयराई खलु'इत्यादि, प्रश्नसूत्रं सुगम, इमाई खलु इत्यादि निर्वचनवाक्यमे तदू, एतच्च प्रायो निगदसिद्धम् , नवरमेकं यत् त्रयोदशकं सर्वाभ्य * * * Jain Education International * For Personal & Private Use Only wwww.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy