________________
2
उच्यते, त्रैराशिकवलात्, तथाहि-यदि चतुविशत्यधिकेन शतेन सप्तदश शतानि अष्टषट्यधिकानि मण्डलानां लभ्यन्ते तत एकेन पर्वणा किं लभामहे ?, राशित्रयस्थापना १२४ । १७६८ ॥ १। अत्रान्त्येन राशिना मध्यराशिर्गुण्यते जातः स तावानेव तत आयेन चतुर्विंशत्यधिकशतरूपेण राशिना भागहरणं छेद्यच्छेदकराश्योश्चतुष्केनापवर्त्तना लब्धानि चतु-12 | ईश मण्डलानि अष्टौ च एकत्रिंशद् भागाः, एतस्मान्नक्षत्रार्द्धमासगम्यं क्षेत्रं त्रयोदश मण्डलानि एकस्य च मण्डलस्य त्रयो-18 दश सप्तपष्टिभागा इत्येवंप्रमाणं शोध्यते, तत्र चतुर्दशभ्यस्त्रयोदश मण्डलानि शुद्धानि एकमवशिष्टं सम्प्रत्यष्टभ्य एकत्रिंशद्भागेभ्यस्त्रयोदश सप्तपष्टिभागाः शोध्याः, तत्र सप्तपष्टिरष्टभिर्गुणिता जातानि पञ्च शतानि पत्रिंशदधिकानि ५३६ एकत्रिंशता त्रयोदश गुणिता जातानि चत्वारि शतानि व्युत्तराणि ४०३ एतानि पञ्चभ्यः शतेभ्यः षट्त्रिंशदधिकेभ्यः शोध्यन्ते स्थितं शेष त्रयस्त्रिंशदधिकं शतं १३३ तत एतत् सप्तषष्टिभागानयनाथ सप्तषष्ट्या गुण्यते जातानि नवाशीतिः शतान्येकादशाधिकानि ८९११ छेदराशिमौल एकत्रिंशत् सा सप्तपष्ट्या गुण्यते जाते द्वे सहस्र सप्तसप्तत्यधिके २०७७ ताभ्यां भागो हियते लब्धाश्चत्वारः सप्तपष्टिभागाः शेषाणि तिष्ठन्ति पटू शतानि व्युत्तराणि ६०३ ततश्छेद्यच्छेदकराश्योः सप्तपश्याऽपवर्तना जाता उपरि नव अधस्तादेकत्रिंशत् लब्धा एकस्य च सप्तषष्टिभागस्य नव एकत्रिंशच्छेदकृता भागाः, उक्तं च-"एगं च मंडलं मंडलस्स सत्तठिभाग चत्तारि । नव चेव चुणियातो इगतीसकएण छेएण ॥ १॥” इह भावनां कुर्वता मण्डलं मण्डलमिति यदुक्तं तत्सामान्यतो ग्रन्थान्तरे या प्रसिद्धा भावना तदुपरोधादवसेयं, परमार्थतः पुनरर्द्धमण्डलमवसातव्यं, ततो न कश्चित् सूत्रभावनिकयोविरोधः, तदेवमेकचन्द्रायणवक्तव्यतोक्ता, सम्प्रति द्वितीयचन्द्राय
-% CE%20
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org