SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञतिवृत्तिः ( मल० ) ॥२४०॥ Jain Education Internationa प्रविश्य चारं चरति तृतीयेऽहोरात्रे उत्तरस्यां दिशि चतुर्थमर्द्धमण्डलमित्यादि प्रागुक्तानुसारेण सकलमपि वक्तव्यं, तदेवमस्य चन्द्रमसः प्रथमेऽयने उत्तरभागादभ्यन्तर प्रवेश चिन्तायां द्वितीयादीन्येकान्तरितानि चतुर्द्दशपर्यन्तानि सप्तार्द्धममण्डलानि भवन्ति, दक्षिणभागादभ्यन्तरप्रवेशचिन्तायां तृतीयादीन्ये कान्तरितानि त्रयोदशपर्यन्तानि पटू अर्द्धमण्डलानि भवन्ति, पञ्चदशस्य चार्द्ध मण्डलस्य त्रयोदश सप्तषष्टिभागाः, एवं च सति यावान् चन्द्रस्यार्द्धमासस्तावान् नक्षत्रस्यार्द्धमासो न भवन्ति, किन्तु ततो न्यून इति सामर्थ्यात् द्रष्टव्यं तथा चाह- 'ता नक्खत्ते' इत्यादि, यद्येवमेकस्मिन्नयने नक्षत्रार्द्धमासरूपे सामान्यतश्चन्द्रमसस्त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागाः 'ता' इति ततो नाक्षत्रोऽर्द्धमासञ्चान्द्रोऽर्धमासो न भवति, चान्द्रेऽर्द्धमासे चतुर्दशानां मण्डलानां पञ्चदशस्य च मण्डलस्य द्वात्रिंशतश्चतुविंशत्यधिकशतभागानां प्राप्यमाणत्वात्, इह नाक्षत्रोऽर्धमासश्चान्द्रोऽर्धमासो न भवतीत्युक्तौ नाक्षत्रोऽर्धमासश्चान्द्रोऽर्धमासो न भवति, यस्तु चान्द्रोऽर्धमासः स कदाचित् नाक्षत्रोऽप्यर्द्धमासः स्यात्, यथा 'परमाणुरप्रदेश' इत्युक्तौ परमारप्रदेश एव यस्तु अप्रदेशः स परमाणुरपि भवत्यपरमाणुश्च क्षेत्र प्रदेशादिरिति शङ्का स्यात् ततस्तदपनोदार्थमाह- चान्द्रोऽर्द्धमासी नाक्षत्रोऽर्धमासो न भवति, एवमुक्ते भगवान् गौतमो नाक्षत्रार्द्धमा सचान्द्रार्द्धमा सयोविशेषपरिज्ञानार्थमाह-'ता नक्खत्ताओ अद्धमासाओ' इत्यादि, 'ता' इति पूर्ववत्, नाक्षत्रात् अर्द्धमासात् ते - तव मतेन भगवन् ! चन्द्रश्चान्द्रेणार्द्धमासेन किमधिकं चरति ?, भगवानाह - 'ता एग' मित्यादि, एकमर्द्धमण्डलं द्वितीयस्य चार्द्धमण्डलस्य चतुरः सप्तष| ष्टिभागानेकस्य च सप्तषष्टिभागस्य एकत्रिंशद्धा विभक्तस्य सत्कान् नव भागानधिकं चरति, कथमेतदवसीयते इति चेत् !, For Personal & Private Use Only १३ प्राभृते चन्द्रायनम ण्डलचारः सू ८१ ॥२४०॥ www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy