________________
सूर्यप्रज्ञशिवृत्तिः ( मल० )
॥ १९ ॥
क्षिणदिग्भाविनोऽन्तराद्दक्षिणदिग्भाविसर्वबाह्यानन्तरद्वितीयमण्डलगताष्टाचत्वारिंशद्योज नै कषष्टिभागाभ्यधिकतदनन्तरा|र्वाग्भावियोजनद्वयप्रमाणादपान्तरालरूपाद्भागाद्विनिःसृत्य 'तस्साइपएसाए' इति तस्य - सर्वबाह्यादभ्यन्तरस्य तृतीयस्योत्त|रार्द्ध मण्डलस्यादिप्रदेशात् - आदिप्रदेशमाश्रित्य बाह्यतृतीयां सर्वबाह्याया अर्द्धमण्डलसंस्थितेस्तृतीयामुत्तराम र्द्धमण्डलसंस्थितिमुपसङ्क्रम्य चारं चरति, अत्रापि चार आदिप्रदेशादारभ्य शनैः शनैरपरार्द्ध मण्डलाभिमुखं तथा कथंचनापि प्रवर्त्तमानो द्रष्टव्यो येन तदहोरात्र पर्यन्ते सर्वबाह्यादर्द्ध मण्डला तृतीयामर्वाक्तनी मर्द्धमण्डलसंस्थितिमुपसङ्क्रम्य चारं चरति तदा अष्टादशमुहूर्त्ता रात्रिश्चतुर्भिर्मुहूर्त्तकषष्टिभागैरुना भवति, द्वादशमुहूर्त्तश्च दिवसश्चतुर्भिर्मुहूर्त्तकषष्टिभागैरभ्यधिकः, 'एव' मित्यादि, एवम् उक्तप्रकारेण खलु — निश्चितमेतेनोपायेन - प्रत्यहोरात्रमभ्यन्तरमष्टाचत्वारिंशद्योजनैकषष्टिभागयोजनद्वयविकम्पनरूपेण शनैः शनैरभ्यन्तरं प्रविशन् सूर्यस्तदनन्तराद् अर्द्धमण्डलात् तदनन्तरां तस्मिन् २ प्रदेशे दक्षिणपूर्वभागे उत्तरापरभागे वा तां तामर्द्धमण्डलसंस्थितिं सङ्क्रामन् द्वितीयस्य षण्मासस्य व्यशीत्यधिकशततमाहोरात्रपर्यन्ते गते उत्तरस्मादुत्तरदिग्भा| विनोऽन्तरात्सर्व बाह्यमण्डलमपेक्ष्य यद् व्यशीत्यधिकशततमं मण्डलं तद्गताष्टाचत्वारिंशद्योजनै कषष्टिभागाभ्यधिकतदनन्तराभ्यन्तरयोजनद्वयप्रमाणादपान्तरालरूपाद्भागात् 'तस्साइपएसाए' इति तस्य - सर्वाभ्यन्तरमण्डलगतस्य दक्षिणस्यार्द्ध मण्डलस्यादिप्रदेशमाश्रित्य सर्वाभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्क्रम्य चारं चरति, स चादिप्रदेशादूर्ध्वं शनैः शनैः सर्वाभ्यन्तरानन्तरबाह्योत्तरार्द्धमण्डलाभिमुखं तथा कथञ्चनापि चारं प्रतिपद्यते येन तस्याहोरात्रस्य पर्यन्ते सर्वाभ्यन्तरानन्तरस्योत्तरस्यार्द्धमण्डलस्य सीमायां भवति, 'ता जया ण'मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरां दक्षिणा
Jain Education International
For Personal & Private Use Only
१ प्राभृते ३ प्राभृतप्राभृतं
॥ १९ ॥
www.jainelibrary.org