________________
सूर्यप्रज्ञतिवृत्तिः ( मल० )
॥२२३॥
Jain Education Interna
पञ्चचत्वारिंशत् उत्तरभद्रपदाया इति शुध्यन्त्ये कोनषष्ट्यधिकेन शतेनोत्तरभद्रपदान्तानि नक्षत्राणि, तथा त्रिषु नवोत्तरेषु शतेषु रोहिणिका - रोहिणिकान्तानि शुद्ध्यन्ति, तथाहि - एकोनषष्ट्यधिकेन शतेनोत्तरभद्रपदान्तानि शुद्धयन्ति, ततस्त्रिंशता मुहूर्त्ते रेवती त्रिंशताऽश्विनी पञ्चदशभिर्भरणी त्रिंशता कृत्तिका पञ्चचत्वारिंशता रोहिणिकेति, तथा त्रिषु नवनवत्यधिकेषु शतेषु पुनर्वसुः - पुनर्वस्वन्तानि शुद्ध्यन्ति, तत्र त्रिभिः शतैर्नवोत्तरै रोहिणिका - रोहिणिकांतानि शुद्ध्यन्ति, ततस्त्रिंशता मुहूत्तै| मृगशिरः पञ्चदशभिरार्द्रा पंचचत्वारिंशता पुनर्वसुरिति, तथा पञ्च शतान्ये कोनपञ्चाशानि - एकोनपञ्चाशदधिकानि उत्तरफाल्गुनी पर्यन्तानि, किमुक्तं भवति ? - पञ्चभिः शतैरे कोनपञ्चाशदधिकैरुत्तरफाल्गुन्यन्तानि नक्षत्राणि शुद्ध्यन्ति, तथाहि - त्रिभिः शतैर्नवनवत्यधिकैः पुनर्वस्वन्तानि शुद्ध्यन्ति, ततस्त्रिंशता मुहूतैः पुष्यः पञ्चदशभिरश्लेषा त्रिंशता मघा त्रिंशता पूर्व | फाल्गुनी पञ्चचत्वारिंशता उत्तरफाल्गुनीति तथा षट् शतान्ये कोनसप्तानि - एकोनसप्तत्यधिकानि विशाखानां - विशाखापर्यन्तानां नक्षत्राणां शोध्यानि, तथाहि - उत्तरफाल्गुन्यन्तानां पञ्च शतान्ये कोनपञ्चाशदधिकानि शोध्यानि, ततस्त्रिंशन्मुहूर्त्ता हस्तस्य त्रिंशत् चित्रायाः पञ्चदश स्वातेः पञ्चचत्वारिंशद्विशाखाया इति, तथा मूले-मूलनक्षत्रे शोध्यानि सप्त शतानि चतुश्चत्वारिंशदधिकानि ७४४, तत्र पटू शतान्येकोनसप्तत्यधिकानि ६६९ विशाखान्तानां नक्षत्राणां शोध्यानि, | ततः त्रिंशन्मुहूर्त्ता अनुराधायाः पञ्चदश ज्येष्ठायास्त्रिंशन्मूलस्येति, तथा अष्टौ शतानि समाहृतानि अष्टशतमेकोनविंशत्यधिकं, किमुक्तं भवति - अष्टौ शतान्येकोनविंशत्यधिकानि उत्तराषाढानां - उत्तराषाढान्तानां नक्षत्राणां शोधनकं, तथाहि| मूलान्तानां नक्षत्राणां शोध्यानि सप्त शतानि चतुश्चत्वारिंशदधिकानि ७४४ तत्र त्रिंशन्मुहूर्त्ताः पूर्वाषाढा नक्षत्रस्य
For Personal & Private Use Only
१२ प्राभृते
आवृत्तयः सू ७६
॥२२३॥
www.jainelibrary.org