________________
Jain Education International
द्वापष्ट्या गुण्यते जातानि चतुर्विंशतिः शतानि अष्टादशाधिकानि २४१८ तेषां सप्तषष्ट्या भागो हियते लब्धाः पट्त्रिंशत् | द्वाषष्टिभागाः शेषास्तिष्ठन्ति पटू ते च एकस्य च द्वाषष्टिभागस्य सत्काः सप्तषष्टिभागाः एते चातिश्लक्ष्णरूपा भागा इति चूर्णिका भागा व्यपदिश्यन्ते, तदेवमुक्तो ध्रुवराशिः, सम्प्रति करणमाह - 'आउट्टी हि इत्यादि, यस्यां यस्यामावृत्ती नक्षयोगो ज्ञातुमिष्यते तया तया आवृत्त्या एकोनिकया - एकरूपहीनया गुणितोऽनन्तरोक्तस्वरूपो भवेत् यावान् एतमुहूर्त्तगुणितं - मुहूर्त्त परिमाणं, अत ऊर्ध्वं वक्ष्यामि शोधनकं, अत्र प्रथमतोऽभिजितो नक्षत्रस्य शोधनकमाह - 'अभिइस्से'त्यादि, अभिजितः - अभिजिन्नक्षत्रस्य शोधनकं नव मुहूर्त्ता एकस्य च मुहूर्त्तस्य चतुर्विंशतिद्वपिष्टिभागः एकस्य च द्वष|ष्टिभागस्य सत्काः सप्तषष्टिच्छेदकृताः समग्राः - परिपूर्णाः षट्षष्टिभागाः कथमेतस्योत्पत्तिरिति चेत्, उच्यते, इहाभिजितोऽहोरात्रसरका एकविंशतिः सप्तषष्टिभागाः चन्द्रेण योगः, ततोऽहोरात्रे त्रिंशन्मुहूर्त्ता इति मुहूर्त्त भागकरणार्थं सा एक विंशतिः त्रिंशता गुण्यते, जातानि षट् शतानि त्रिंशदधिकानि ६३०, तेषां सप्तषष्ट्या भागो हियते, लब्धा नव मुहूर्त्ताः, शेषास्तिष्ठन्ति सप्तविंशतिः, ते द्वाषष्टिभागकरणार्थं द्वापट्या गुण्यन्ते, जातानि पोडश शतानि चतुःसप्तत्यधिकानि १६७४, तेषां सप्तषष्ट्या भागे हृते लब्धाश्चतुर्विंशतिर्द्वाषष्टिभागाः, शेषास्तिष्ठन्ति षट्षष्टिः, ते च एकस्य द्वाषष्टिभागस्य सत्काः सप्तषष्टिभागाः, सम्प्रति शेषनक्षत्राणां शोधनकान्युच्यन्ते - 'उगुणट्ट' मित्यादि गाथात्रयं, एकोनषष्यधिकं शतं प्रोष्ठपदा - उत्तरभद्रपदा, किमुक्तं भवति ! - एकोनषष्ट्यधिकेन शतेन । भिजिदादीन्युत्तरभद्रपदान्तानि नक्षत्र गि शुद्ध्यन्ति, तथाहि -नव मुहूर्त्ता अभिजितो नक्षत्रस्य त्रिंशत् श्रवणस्य त्रिंशत् धनिष्ठायाः पञ्चदश शतभिपजः त्रिंशत् पूर्वभद्रपदायाः ।
For Personal & Private Use Only
www.jainelibrary.org