________________
(मल.)
सू७६
॥२२॥
SAMACHARG
आवृत्तिः प्रथमायां तिथौ प्रतिपदि भवतीति, तथा कस्यां तिथौ द्वितीया माघमासभाविन्यावृत्तिर्भवतीति यदि जिज्ञासा
१२प्राभृते ततो द्विको ध्रियते, स रूपोनः कृत इति जात एककस्तेन ज्यशीत्यधिकं शतं गुण्यते, एकेन च गुणितं तदेव भवतीति आवृत्तयः जातं त्र्यशीत्यधिकमेव शतं, एकेन गुणितं किल व्यशीत्यधिकं शतमिति एकस्त्रिगुणीक्रियते, जातस्त्रिकः स रूपाधिको विधीयते, जाताश्चत्वारः ते पूर्वराशौ प्रक्षिप्यन्ते, जातं सप्ताशीत्यधिकं शतं १८७, तस्य पञ्चदशभिर्भागो हियते, लब्धा द्वादश शेषास्तिष्ठन्ति सप्त, आगतं युगे द्वादशसु पर्वस्वतिक्रान्तेषु माघमासे बहुलपक्षे सप्तम्यां तिथौ द्वितीया माघमासभाविनीनां तु मध्ये प्रथमा आवृत्तिरिति, तथा तृतीया आवृत्तिः कस्यां तिथौ भवतीति जिज्ञासायां त्रिको ध्रियते, स
रूपोनः कर्त्तव्य इति जातो द्विकः तेन त्र्यशीत्यधिकं शतं गुण्यते, जातानि त्रीणि शतानि षट्पट्यधिकानि ३६६, द्विकेन ४ किल गुणितं व्यशीत्यधिकं शतं ततो द्विकस्त्रिगुणीक्रियते जाताः षट् ते रूपाधिकाः क्रियन्ते जाताः सप्त ते पूर्वराशौ
प्रक्षिप्यन्ते जातानि त्रीणि शतानि त्रिसप्तत्यधिकानि ३७३ तेषां पञ्चदशभिर्भागो ह्रियते लब्धा चतुर्विंशतिः २४ शेषा-15 स्तिष्ठन्ति त्रयोदशांशाः, आगतं युगे तृतीया आवृत्तिः श्रावणमासभाविनीनां तु मध्ये द्वितीया चतुर्विंशतिपर्वात्मके प्रथमे संवत्सरेऽतिक्रान्ते श्रावणमासे बहुलपक्षे त्रयोदश्यां तिथौ भवतीति, एवमन्यास्वप्यावृत्तिषु करणवशाद्विवक्षितास्तिथयः आनेतव्याः, ताश्चेमा युगे चतुर्था माघमासभाविनीनां तु मध्ये द्वितीया शुक्लपक्षे चतुर्थ्यां पञ्चमी श्रावणमासभाविनीनां तु मध्ये तृतीया शुक्लपक्षे दशम्यां षष्ठी माघमासभाविनीनां तु मध्ये तृतीया माघमासे बहुलपक्षे प्रतिपदि सप्तमी श्रावण-18 मासभाविनीनां तु मध्ये चतुर्थी श्रावणमासे बहुलपक्षे सप्तम्यां अष्टमी माघमासभाविनीनांतु मध्ये चतुर्थी माघमासे बहु
॥२२१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org