________________
कश्चन्द्रतुरिति, तत्रैकं पर्व अतिक्रान्तमित्येको ध्रियते, स पञ्चदशभिर्गुण्यते जाताः पञ्चदश एकादश्यां किल पृष्टमिति तस्याः पाश्चात्या दश ये दिवसास्ते प्रक्षिप्यन्ते जाताः पञ्चविंशतिः २५ सा चतुस्त्रिंशेन शतेन गुण्यते जातानि त्रयस्त्रिं-18 शच्छतानि पञ्चाशदधिकानि ३३५० तेषु त्रीणि शतानि पञ्चोत्तराणि प्रक्षिप्यन्ते जातानि षट्त्रिंशच्छतानि पञ्चपञ्चाशदधिकानि ३६५५ तेषां षद्भिः शतैर्दशोत्तरैर्भागो हियते लब्धाः पञ्च अंशा अवतिष्ठन्ते षट् शतानि पञ्चोत्तराणि ६०५ | तेषां चतुस्त्रिंशेन शतेन भागे हृते लब्धाश्चत्वारो दिवसाः ४ शेषास्त्वंशा उद्धरन्ति एकोनसप्ततिः ६९ तस्या द्विकेनापवर्तनायां लब्धाः सा श्चितुस्त्रिंशत्सप्तषष्टिभागाः, आगतं पञ्च ऋतवोऽतिक्रान्ताः षष्ठस्य च ऋतोश्चत्वारो दिवसाः पञ्च-12 मस्य दिवसस्य सार्दाश्चतुस्त्रिंशत्सप्तषष्टिभागाः, एवमन्यस्मिन्नपि दिवसे चन्द्र रवगन्तव्यः। सम्प्रति चन्द्र परिसमाप्तिदि-1 वसानयनाय यत्पूर्वाचायः करणमुक्तं तदभिधीयते-"पुवंपिव धुवरासी गुणिए भइए सगेण छेएणं । जं लद्धं सो दिवसो| सोमस्स उऊ समत्तीए ॥१॥" अस्या व्याख्या-इह यः पूर्व सूर्यर्तुप्रतिपादने ध्रुवराशिरभिहितः पञ्चोत्तराणि त्रीणि शतानि चतुस्त्रिंशदधिकशतभागानां तस्मिन् पूर्वमिव गुणिते, किमुक्तं भवति?-ईप्सितेन एकादिना व्युत्तरचतुःशततमपर्यन्तेन-युत्तरवृद्धेन एकस्मादारभ्य तत ऊर्ध्व व्युत्तरवृद्ध्या प्रवर्द्धमानेन गुणिते स्वकेन-आत्मीयेन छेदेन चतुस्त्रिंशदधिक
शतरूपेण भक्ते सति यल्लब्धं स सोमस्य-चन्द्रस्य ऋतोः समाप्तौ वेदितव्यः, यथा केनापि पृष्टं चन्द्रस्य ऋतुः प्रथमः ४ कस्यां तिथौ परिसमाप्तिं गत इति, तत्र ध्रुवराशिः पञ्चोत्तरशतत्रयप्रमाणो ध्रियते ३०५ स एकेन गुण्यते जातस्तावा
नेव ध्रुवराशिः तस्य स्वकीयेन चतुस्त्रिंशदधिकशतप्रमाणेन छेदेन भागो हियते, लब्धौ द्वौ शेषास्तिष्ठति सप्तत्रिंशत्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org