SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ मान प्राभते नोयुगयुग. रात्रिन्दिव मुहूर्त्तमानं सू७३ सूर्यप्रज्ञ-12 ता इति पूर्ववत्, कियत्-किंप्रमाणं ते-रखया भगवन् ! 'नोयुगं' नोशब्दो देशनिषेधवचनः किञ्चिदूनं युगमित्यर्थः, विवृत्तिः । भारात्रिन्दिवाण-रात्रिन्दिवपरिमाणेनाख्यात इति वदेत् ?, भगवानाह–ता सत्तरसे'त्यादि, नोयुगं हि किञ्चिदनं युगं, (मल०) तच्च नक्षत्रादिपञ्चसंवत्सरपरिमाणमतो नक्षत्रादिपञ्चसंवत्सरपरिमाणानामेकत्र मीलने भवति यथोक्ता रात्रिन्दिवसङ्ख्या, तथाहि-नक्षत्रसंवत्सरस्य परिमाणं त्रीणि रात्रिन्दिवशतानि सप्तविंशत्यधिकानि एकस्य च रात्रिन्दिवस्य एकपञ्चाशत्स- ॥२०६॥ साप्तषष्टिभागाः, चन्द्रसंवत्सरस्य त्रीणि रात्रिन्दिवशतानि चतुष्पञ्चाशदधिकानि द्वादश च द्वाषष्टिभागा रात्रिन्दिवस्य, ऋतुसंवत्सरस्य त्रीणि रात्रिन्दिवशतानि षट्याधिकानि, सूर्यसंवत्सरस्य त्रीणि शतानि षट्पश्यधिकानि रात्रिन्दिवानां, अभिवर्द्धितसंवत्सरस्य त्रीणि रात्रिन्दिवशतानि ज्यशीत्यधिकानि एकविंशतिश्च मुहर्ता एकस्य च मुहूर्तस्याष्टादश द्वाप|ष्टिभागाः, तत्र सर्वेषां रात्रिन्दिवानामेकत्र मीलने जातानि सप्तदश शतानि नवत्यधिकानि, ये च एकपञ्चाशत्सप्तषष्टि|भागा रात्रिन्दिवस्य ते मुहूर्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि पञ्चदश शतानि त्रिंशदधिकानि १५३०, तेषां सप्तषष्ट्या |भागो हियते, लब्धा द्वाविंशतिर्मुहर्ता एकस्य च मुहूर्त्तस्य षट्पञ्चाशत्सप्तषष्टिभागाः २२ । मुहूर्त्ताश्च लब्धा एकविंशती मुहूर्तेषु मध्ये प्रक्षिप्यन्ते, जातास्त्रिचत्वारिंशन्मुहूर्तास्तत्र त्रिंशता अहोरात्रो लब्ध इति जातान्यहोरात्राणां सप्तदश शतान्येकनवत्यधिकानि १७९१, शेषास्तिष्ठन्ति मुहूर्तास्त्रयोदश १३, येऽपि च द्वापष्टिभागा अहोरात्रस्य द्वादश तेऽपि मुहूर्त्तकरणार्थ त्रिंशता गुण्यन्ते, जातानि त्रीणि शतानि पश्यधिकानि ३६०, तेषां द्वापश्या भागो हियते, लब्धाः पञ्च मुहूर्तास्ते प्रागुक्तेषु त्रयोदशसु मुहूर्तेषु मध्ये प्रक्षिप्यन्ते, जाता अष्टादश, शेषास्तिष्ठन्ति पञ्चाशत् द्वापष्टिभागा ॥२०६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy