________________
१
सूर्यप्रज्ञतिवृत्तिः (मल०) ॥२०॥
'ता कइ संवच्छरा'इत्यादि, ता इति पूर्ववत्, कति संवत्सरा भगवन् ! त्वया आख्याता इति वदेत् ?, भगवानाह- १२ प्राभृते 'तत्रे'त्यादि, तत्र-संवत्सरविचारविषये खल्विमे पञ्च संवत्सरा प्रज्ञप्ताः, तद्यथा-'नक्खत्ते'त्यादि, पदैकदेशे पदसमु-४२२ प्राभृतदायोपचारात् नक्षत्रसंवत्सरश्चन्द्रसंवत्सर ऋतुसंवत्सर आदित्यसंवत्सरोऽभिवतिसंवत्सरः, एतेषां च पश्चानामपि संव- प्राभृते त्सराणां स्वरूपं प्रागेवोपवर्णितं, 'ता एएसि ण'मित्यादि प्रश्नसूत्रं, 'ता' इति पूर्ववत्, एतेषां पञ्चानां संवत्सराणां मध्ये |
नक्षत्रादिवप्रथमस्य नक्षत्रसंवत्सरस्य सत्को यो नक्षत्रमासः स त्रिंशन्मुहूर्त्तप्रमाणेनाहोरात्रेण गण्यमानः कियान् रात्रिन्दिवाण
परात्रिन्दि
नवमुहूर्त्तमानं रात्रिन्दिवपरिमाणेनाख्यात इति वदेत् ?, भगवानाह–'ता' इत्यादि, ता इति पूर्ववत् , सप्तविंशतिः रात्रिन्दिवानि एक
सू ७२ विंशतिश्च सप्तषष्टिभागा रात्रिन्दिवस्य रात्रिन्दिवाओणाख्यात इति वदेत् , तथाहि-युगे नक्षत्रमासाः सप्तषष्टिरेतच्च प्रागेव भावितं, युगे चाहोरात्राणामष्टादश शतानि त्रिंशदधिकानि १८३०, ततस्तेषां सप्तषष्ट्या भागे हृते लब्धाः सप्तविंशतिरहोरात्रा एकस्य चाहोरात्रस्य एकविंशतिः सप्तषष्टिभागाः २७ ।। 'ता से ण'मित्यादि, स नक्षत्रमासः कियान् मुहूर्ताओण-मुहूर्त्तपरिमाणेनाख्यात इति वदेत् ?, भगवानाह–ता अट्ठसए'इत्यादि, अष्टोत्तरशतान्येकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य सप्तविंशतिः सप्तषष्टिभागाः ८१९ । ३७ । मुहूर्ताओणाख्यात इति वदेत् , तथाहिनक्षत्रमासपरिमाणं सप्तविंशतिरहोरात्रा एकस्य चाहोरात्रस्य एकविंशतिः सप्तषष्टिभागाः, ततः सवर्णनार्थ सप्तविंशतिरप्यहोरात्राः सप्तषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितना एकविंशतिः सप्तषष्टिभागाः प्रक्षिप्यन्ते, जातानि सप्तषष्टिभागा- २०३॥ नामष्टादश शतानि त्रिंशदधिकानि १८३०, तानि मुहूर्तानयनार्थ त्रिंशता गुण्यन्ते, जातानि चतुष्पश्चाशत्सहस्राणि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org