________________
जेणं पढमस्स चंदसंवच्छरस्स आदी से णं पंचमस्स अभिवह्नितसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समये, तं समयं च णं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं चरमसंमये, तं समयं च णं सूरे केण णक्खत्तेणं जोएति ?, ता पुस्सेणं, पुस्सस्स णं एक्कवीसं मुहुत्ता तेतालीसंच बावट्ठिभागे मुहुत्तस्स बावट्टिभागं सत्तद्विधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा ( सूत्रं ७९ ) ॥ एकारसमं पाहुडं समन्तं ॥
'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं केन प्रकारेण भगवन् ! त्वया संवत्सराणामादिराख्यात इति वदेत् ?, भगवानाह - ' तत्थ खलु' इत्यादि, तत्र - संवत्सर विचारविषये खल्विमे पञ्च संवत्सराः प्रज्ञप्ताः, तद्यथा - चन्द्रश्चन्द्रोऽभिवर्द्धितः चन्द्रोऽभिवर्द्धितः, एतेषां च स्वरूपं प्रागेवोपदर्शितं भूयः प्रश्नयति — 'ता एएसि ण' मित्यादि, ता इति पूर्ववत्, एतेषां पञ्चानां संवत्सराणां मध्ये प्रथमस्य चान्द्रस्य संवत्सरस्य क आदिराख्यात इति वदेत् ?, भगवानाह - 'ता जेण' मित्यादि, यत् पाश्चात्ययुगवर्त्तिनः पञ्चमस्याभिवर्द्धितसंवत्सरस्य पर्यवसानं - पर्यवसानसमयः तस्मादनन्तरं पुरस्कृतो भावी यः समयः स प्रथमस्य चन्द्रसंवत्सरस्यादिः, तदेवं प्रथम संवत्सरस्यादिज्ञतः, सम्प्रति पर्यवसानसमयं पृच्छति - 'ता से ण'मित्यादि, ता इति पूर्ववत् स प्रथमश्चान्द्रसंवत्सरः किंपर्यवसितः - किंपर्यवसान आख्यात इति वदेत् ?, भगवानाह - 'ता' जेण 'मित्यादि, यो द्वितीयस्य चान्द्रसंवत्सरस्यादिः -- आदिसमयस्तस्मादनन्तरो यः पुरस्कृतः - अतीत समयः स प्रथमचान्द्रसंवत्सरस्य पर्यवसानं - पर्यवसानसमयः, 'तं समयं च ण'मित्यादि, तस्मिंश्चान्द्र संवत्सरपर्यवसानभूते समये चन्द्रः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org