________________
द्विचत्वारिंशदधिकैर्मुहूर्त्तानामेकस्य च मुहूर्त्तस्य षट्चत्वारिंशता द्वाषष्टिभागैरश्लेषादीनि उत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि स्थितानि पश्चात्रीणि शतानि पञ्चाशदधिकानि मुहूर्त्तानामेकस्य च मुहूर्त्तस्य चतुर्द्दश द्वाषष्टिभागा एकस्य च द्वाषटि भागस्य द्वादश सप्तषष्टिभागाः ३५० | १४ | १२ ततस्त्रिभिः शतैर्नवोत्तरमुहर्त्तानामेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि रोहिणीपर्यन्तानि शुद्धानि स्थिताः पश्चाच्चत्वारिंशन्मुहूर्त्ताः एकस्य च मुहूर्त्तस्य एकपञ्चाशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयोदश सप्तषष्टिभागाः ४० । ५१ । १३ । त स्त्रिंशता मुहूतैर्मृगशिरः शुद्धः स्थिताः पश्चाद्दश मुहूर्त्ताः, शेषं तथैव १० । ५१ । १३ । तत आगतं आर्द्रा नक्षत्रस्य चन्द्रेण सह संयुक्तस्य चतुर्षु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य दशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुष्पश्चाशति सप्तषष्टिभागेषु ४। १० । ५४ । शेषेषु द्वादशी अमावास्या परिसमाप्तिमियति, सम्प्रति सूर्यविषये प्रश्नमाह - 'तं समयं वः ण' मित्यादि, सुगमं, भगवानाह - 'ता अद्दाए 'चेव' आर्द्रयैव युक्तः सूर्योऽपि द्वादशीममावास्यां परिसमापयति, शेषपाठविषयेऽतिदेशमाह - 'अदाए जहा चन्दस्स' यथा चन्द्रविषये आर्द्रायाः शेष उक्तस्तथा सूर्यविषयेऽपि वक्तव्यः, स चैवम्- 'अदाए चतारि मुहुत्ता दस य बावट्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता चउप्पण्णं चुण्णिया भागा सेसा' इति । चरमद्वाषष्टितमामावास्याविषयं प्रश्नमाह - 'ता एएसि णमित्यादि, सुगमं, भगवानाह - 'ता पुणवसुणा' इत्यादि, ता इति पूर्ववत्, पुनर्वसुना युक्तश्चन्द्रश्चरमां द्वाषष्टितमाममावास्यां परिसमापयति, तदानीं च चरमद्वाषष्टितमामावास्यापरिसमाप्तिवेलायां पुनर्वसु नक्षत्रस्य द्वाविंशतिर्मुहूर्त्ताः षट्चत्वारिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य शेषाः, तथाहि-- सर एक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org