________________
मंडलस्स सत्तहभाग चत्तारि । नव चेव चुण्णियाओ इगतीसकएण छेएण॥१॥” अस्या अक्षरयोजना-एक मण्डलमेकस्य च
मण्डलस्य सप्तषष्टिभागाश्चत्वारः च नव चूर्णिकाभागा एकस्य च सप्तषष्टिभागस्य एकत्रिंशत्कृतेन छेदेन ये चूर्णिका भागास्तेन च,8 * एतावत्प्रमाणो ध्रुवराशिः, अयं च पर्वगतक्षेत्रादयनगतक्षेत्रापगमे शेषीभूतः, एतस्य चोत्पत्तिमात्रं भावयिष्यामः, तत एवंभूतं
ध्रुवराशिमीप्सितपर्वभिर्गुणयित्वा तदनन्तरमयनं रूपाधिकं कर्त्तव्यं, तथागुणितस्य मण्डलराशेः यदि चन्द्रमसोऽयनक्षेत्रं परिपूर्णमधिकं वा सम्भाव्यते तत एतस्मादीप्सितपर्वसङ्ख्यागुणितात् मण्डलराशेरुडुपतेः-चन्द्रमसोऽयनक्षेत्रं भवति शोध्यं, यति च-यावत्सङ्ख्यानि चायनानि शुद्ध्यन्ति ततिभिर्युक्तानि पर्वाणि अयनानि क्रियन्ते, कृत्वा च भूयो रूपसंयुक्तानि विधेयानि, यदि पुनः परिपूर्णानि मण्डलानि शुद्ध्यन्ति राशिश्च पश्चान्निर्लेपो जायते तदा तदयनसङ्ख्यानै निरंशं सद्रूप| युक्तं नास्ति, न तत्रायनराशौ रूपं प्रक्षिप्यते इति भावः, तथा कृत्स्ने-परिपूर्णे राशौ भवत्येकं रूपं मण्डलराशौ प्रक्षेपणीयं, भिन्ने-खण्डे अंशसहिते राशावित्यर्थः, द्विरूपे मण्डलराशौ प्रक्षेपणीये प्रक्षेपे च कृते सति यावान् मण्डलराशिर्भवति तावन्ति मण्डलानि तावतिथे ईप्सिते पर्वणि भवन्ति । तथा यदि ईप्सितेन पर्वणा ओजोरूपेण-विषमलक्षणेन गुणकारो भवति तत आदिरभ्यन्तरे मण्डले द्रष्टव्यः, युग्मे तु-समे तु गुणकारे आदिर्बाह्ये मण्डलेऽवसेयः, एष करणगाथासमूहाक्षरार्थः, भावना त्वियम्-कोऽपि पृच्छति-युगादौ प्रथमं पर्व कस्मिन्नयने कस्मिन् वा मण्डले समाप्तिमुपयाति , तत्र प्रथमं पर्व पृष्टमिति वामपार्श्वे पर्वसूचक एककः स्थाप्यते, ततस्तस्यानुश्रेणि दक्षिणपाघे एकमयनं, तस्य चानुश्रेणि एक | मण्डलं, तस्य च मडलस्याधस्ताच्चत्वारः सप्तषष्टिभागास्तेषामप्यधस्तान्नव एकत्रिंशद्भागाः, एष सर्वोऽपि राशिधूवराशिः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org