SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ द्वादशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्टं द्वाचत्वारिंशतमेकषष्टिभागान् एकस्य च एकपष्टिभागस्य सत्कान पश्च सप्तभागान् , शेषं च त्रयोदश एकपष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्को द्वौ सप्तभागी इत्येतावन्मानं | सूर्यमण्डलसम्मिश्र, तस्माच्च द्वादशाच्चन्द्रमण्डलाबहिर्विनिर्गतं सूर्यमण्डलं चतुस्त्रिंशतमेकषष्टिभागान् योजनस्य एकस्य |च एकषष्टिभागस्य सत्कान् पश्च सप्तभागान , तत एतावन्मात्रेण हीनं परतश्चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा लभ्यन्ते, द्वादशाच्च सूर्यमार्गात्परतो नवतिसरेकषष्टिभागैरेकस्य च एकषष्टिभागस्य सत्कैः पद्भिः सप्तभागैस्त्रयोदशं चन्द्रमण्डलं, तच्च त्रयोदशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्ट, एकत्रिंशतमेकषष्टिभागान् एकस्य च एकषष्टिभागस्य सत्कमे सप्तभागं, शेष चतुर्विशतिरेकषष्टिभागाः एकस्य एकषष्टिभागस्य सत्काः षट् सप्तभागा इत्येतावन्मानं सूर्यमण्डलसम्मिश्र, तस्माच्च त्रयोदशाच्चन्द्रमण्डलादु बहिः सूर्यमण्डलं विनिर्गतं त्रयोविंशतिमेकषष्टिभागान् एकस्य एकषष्टिभागस्य सत्कमेकं सप्तभागं, तत एतावता हीनं परतश्चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमागाः, द्वादशाच्च सूर्यमार्गात् परत एक| षष्टिभागानां व्युत्तरेण शतेन एकस्य च एकषष्टिभागस्य सत्कैस्त्रिभिः सप्तभागैश्चतुर्दशं चन्द्रमण्डलं, तच्च चतुर्दशं चन्द्रम-18 ण्डलं सूर्यमण्डादभ्यन्तरं प्रविष्टमेकोनविंशतिमेकषष्टिभागानेकस्य च एकषष्टिभागस्य सत्कान् चतुरः सप्तभागान् , शेष षट्त्रिंशदेकषष्टिभागा एकस्य च एकपष्टिभागस्य सत्कास्त्रयः सप्तभागा इत्येतावत्परिमाणं सूर्यमण्डलसम्मिश्र, तस्माच्चतुर्दशाच्चन्द्रमण्डला बहिर्विनिर्गतं सूर्यमण्डलमेकादश एकषष्टिभागान् एकस्य च एकषष्टिभागस्य चतुरः सप्तभागान् , तत एतावता हीनं| यथोक्तपरिमाणं चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गाः, द्वादशाच्च सूर्यमार्गात् परतः एकषष्टिभागानां चतुर्दशोत्तरेण | Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy