________________
तत्राद्यानि षट् नक्षत्राणि यद्यपि पञ्चदशस्य मण्डलस्य बहिश्चारं चरन्ति तथापि तानि तस्य प्रत्यासन्नानीति तत्र गण्यन्ते, * ततो न कश्चिद्विरोधः, तथा तत्र-तेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानि यानि सदा नक्ष
विरहितानि तानि सप्त, तद्यथा-द्वितीयं चन्द्रमण्डलमित्यादि, तथा तत्र-तेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानि रविशशिनक्षत्राणां सामान्यानि भवन्ति तानि णमिति प्राग्वत् चत्वारि, तद्यथा-'पढमे चंदमंडले' इत्यादि, तथा तत्र-तेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानि यानि सदा आदित्याभ्यां विरहितानि तानि पञ्च, तद्यथा-'छट्टे चंदमंडले'इत्यादि सुगम, एतगणनाच्च यान्यभ्यन्तराणि पञ्च चन्द्रमण्डलानि, तद्यथाप्रथम द्वितीयं तृतीयं चतुर्थ पञ्चमं, यानि च सर्वबाह्यानि चन्द्रमण्डलानि, तद्यथा-एकादशं द्वादशं त्रयोदशं चतुर्दशं पञ्चदशमित्येतानि दश सूर्यस्यापि साधारणानीति गम्यते, तथा चोक्कमन्यत्र-'दस चेव मंडलाई अभितरबाहिरा रविससीणं । सामन्नाणि उ नियमा पत्तेया होंति सेसाणि ॥१॥" अस्याक्षरगमनिका-पञ्चाभ्यन्तराणि पञ्च बाह्यानि सर्व-| सङ्ख्यया दश मण्डलानि नियमाद्रविशशिनोः सामान्यानि-साधारणानि, शेषाणि तु यानि चन्द्रमण्डलानि षडादीनि दशपर्यन्तानि तानि प्रत्येकानि-असाधारणानि चन्द्रस्य, तेषु चन्द्र एव गच्छति नतु जातुचिदपि सूर्य इति भावः, इह किं चन्द्रमण्डलं कियता भागेन सूर्यमण्डलेन न स्पृश्यते कियन्ति वा चन्द्रमण्डलस्यापान्तराले सूर्यमण्डलानि कथं वा षडादीनि दशपर्यन्तानि पञ्च चन्द्रमण्डलानि सूर्येण न स्पृश्यन्ते इति चिन्तायां विभागोपदर्शनं पूर्वाचार्यैः कृतं, ततस्तद्विनेयजनानुग्रहायोपदय॑ते-तत्र प्रथमत एतद्विभावनार्थ विकम्पक्षेत्रकाष्ठा निरूप्यते, इह सूर्यस्य. विकम्पक्षेत्रकाष्ठा पश्च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org