________________
सूर्यज्ञतिवृत्तिः ( मल० )
॥१३९॥
इया चंदमंडला पन्नत्ता ?, गोयमा ! जंबुद्दीवे दीवे असीर्य जोयणसयं ओगाहित्ता एत्थ णं पंच चंदमंडला पण्णत्ता, लवणे णं भंते ! समुद्दे केवइयं ओगाहित्ता केवइया चंदमंडला पण्णत्ता १, गोयमा ! लवणे णं समुद्दे तिण्णि तीसाई जोयणसयाई ओगाहित्ता एत्थ णं दस चंदमंडला पण्णत्ता, एवामेव सपुबावरेणं जंबुद्दीवे लवणे य पन्नरस चंदमंडला भवन्तीति अक्खायं" 'ता' इत्यादि, 'ता' इति तत्र - एतेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये 'अस्थि' त्ति सन्ति तानि चन्द्रमण्डलानि यानि सदा नक्षत्रैरविरहितानि, तथा सन्ति तानि चन्द्रमण्डलानि यानि सदा नक्षत्रैर्विरहितानि तथा सन्ति तानि चन्द्रमण्डलानि यानि रविशशिनक्षत्राणां सामान्यानि - साधारणानि, किमुक्तं भवति ? - रविरपि तेषु मण्डलेषु गच्छति शश्यपि नक्षत्राण्यपीति, तथा सन्ति तानि चन्द्रमण्डलानि यानि सदा आदित्याभ्यां सूत्रे द्वित्वेऽपि बहुवचनं प्राकृतत्वात् विरहितानि येषु न कदाचिदपि द्वयोः सूर्ययोर्मध्ये एकोऽपि सूर्यो गच्छतीति भावः, एवं भगवता सामान्येनोक्ते भगवान् गौतमो विशेषावगमननिमित्तं भूयः प्रश्नयति- 'ता एएसि ण' मित्यादि सुगमं, भगवानाह - 'ता एएसि ण'मित्यादि, ता इति पूर्ववत् एतेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानि यानि णमिति प्राग्वत् सदा नक्षत्रैरविरहितानि तान्यष्टौ तद्यथा-'पढमे चंदमंडले' इत्यादि, तत्र प्रथमे चन्द्रमण्डले अभिजिदादीनि द्वादश नक्षत्राणि, तथा च तत्सङ्ग्रहणिगाथा - 'अभिई सवण घणिट्ठा सयभिसया दो य होंति भद्दवया । रेवइ अस्सिणी भरणी दो फग्गुणि साइ पढमंमि ॥ १ ॥ तृतीये चन्द्रमण्डले पुनर्वसुमधे षष्ठे चन्द्रमण्डले कृत्तिका सप्तमे रोहिणीचित्रे अष्टमे विशाखा दशमे अनुराधा एकादशे ज्येष्ठा पञ्चदशे मृगशिर आर्द्रापुष्यो अश्लेषा हस्तो मूलः पूर्वाषाढा उत्तराषाढा च
Jain Education International
For Personal & Private Use Only
१० प्राभृते
११ प्राभृत
प्राभृते
चन्द्रमण्डलमार्गः
सू ४५
| ॥१३९॥
www.jainelibrary.org