________________
शेष तिष्ठति त्रिचत्वारिंशदधिकं शतं १४३, तत् चतुर्भिर्गुण्यते, जातानि पश्च शतानि द्विसप्तत्यधिकानि ५७२, तेषामेकत्रिंशता भागो हियते, लब्धान्यष्टादशाङ्गलानि १८, तेषां मध्ये द्वादशभिरङ्गुलैः पदमिति लब्धमेकं पदं षट् अङ्गलानि, उपरि चांशा उद्धरन्ति चतुर्दश १४, ते यवानयनार्थमष्टभिर्गुण्यन्ते, जातं द्वादशोत्तरं शतं ११२, तस्यैकत्रिंशता भागे हृते लब्धास्त्रयो यवाः, शेषास्तिष्ठन्ति यवस्य एकोनविंशतिरेकत्रिंशद्भागाः, सप्त चायनान्यतिक्रान्तानि अष्टमं वर्तते, अष्टमं चायनमुत्तरायणं, उत्तरायणे च पदचतुष्टयरूपात् ध्रुवराशेानिर्वक्तव्या तत एक पदं सप्त अङ्गलानि त्रयो यवा एकस्य च यवस्य एकोनविंशतिरेकत्रिंशद्भागा इति पदचतुष्टयात्पात्यते, शेषं तिष्ठति द्वे पदे पश्चाङ्गलानि चत्वारो यवा एकस्य च यवस्य द्वादश एकत्रिंशद्भागाः, एतावती युगे आदित आरभ्य सप्तनवतितमे पर्वणि पञ्चम्यां तिथौ पौरुषीति, एवं सर्वत्र भावनीयं । सम्प्रति पौरुषीपरिमाणतोऽयनगतपरिमाणज्ञापनार्थमियं करणगाथा-'ही वे'त्यादि, पौरुष्यां यावती वृद्धि
निर्वा दृष्टा ततः सकाशाद् दिवसगतेन प्रवर्त्तमानेन वा त्रैराशिककर्मानुसारणतो यत् लब्धं तत् अयनगतं-अयनस्य तावत्प्रमाणं, गतं वेदितव्यं, एष करणगाथाक्षरार्थः। भावना त्वियम्-तत्र दक्षिणायने पदद्वयस्योपरि चत्वारि अङ्गुलानि वृद्धौ दृष्टानि, ततः कोऽपि पृच्छति-किय गतं दक्षिणायनस्य ?, अत्र त्रैराशिककर्मावतारो-यदि चतुर्भिरङ्गलस्य एकत्रिंशद्भागैरेका तिथिर्लभ्यते ततश्चतुर्भिरङ्गलैः कति तिथीलभामहे ?, राशित्रयस्थापना ४,१,४। अत्रान्त्यो राशिरडलरूप एकत्रिंशद्भागकरणार्थमेकत्रिंशता गुण्यते जातं चतुर्विशत्यधिकं शतं १२४, तेन मध्यो राशिगुण्यते, जातं तदेव चतुर्विशत्यधिकं शतं १२४, 'एकगुणने तदेव भवतीति वचनात् , तस्य चतुष्करूपेणादिराशिना भागो ह्रियते, लब्धा एकत्रिं
Jain Education International
For Personal & Private Use Only
www.janelibrary.org