________________
+
6
नक्षत्रस्य सम्बन्धिनो मुहूर्त्तस्य द्वाषष्टिभागाश्चतुर्विंशतिः षट्षष्टिश्च चूर्णिकाभागा एकस्य द्वापष्टिभागस्य सप्तषष्टिभागाः शोधनीयाः, 'एयाई'इत्यादि, एतान्यनन्तरोदितानि शोधनकानि यथायोगं शोधयित्वा यच्छेषमवतिष्ठते तद्भवति नक्षत्रं, एतस्मिंश्च नक्षत्रे करोति सूर्येण सममुडुपतिरमावास्यामिति । तदेवममावास्याविषयचन्द्रयोगपरिज्ञानार्थ करणमुक्त,
सम्प्रति पौर्णमासीविषयचन्द्रयोगपरिज्ञानार्थ करणमाह:-'इच्छापुन्निमें'त्यादि, यः पूर्वममावास्याचन्द्रनक्षत्रपरिज्ञानासर्थमवधार्यराशिरुक्तः स एवात्रापि पौर्णमासीचन्द्रनक्षत्रपरिज्ञानविधौ ईप्सितपौर्णमासीगुणितो-यां पौर्णमासी ज्ञातुमि-%
च्छति तत्सङ्ख्यया गुणितः कर्तव्यः, गुणिते च सति तदेव पूर्वोक्तं शोधनं कर्त्तव्यं, केवलमभिजिदादिकं नतु पुनर्वसुप्रभृ. तिक, शुद्धे च शोधनके यत् शेषमवतिष्ठते तद्भवेन्नक्षत्रं पौर्णमासीयुक्तं, तस्मिंश्च नक्षत्रे करोति उडुपतिः-चन्द्रमाः परि
पूर्णः पूर्णमासी विमलामिति। एष पौर्णमासीचन्द्रनक्षत्रपरिज्ञानविषयकरणगाथाद्वयाक्षरार्थः, सम्प्रत्यस्यैव भावना क्रियते& कोऽपि पृच्छति-युगस्यादौ प्रथमा पौर्णमासी श्राविष्ठी कस्मिंश्चन्द्रनक्षत्रे परिसमाप्तिमुपैति ?, तत्र षट्षष्टिमुहूर्त्ता एकस्य च
मुहूर्तस्य पञ्च द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य एकः सप्तषष्टिभाग इत्येवंरूपोऽवधार्यराशिर्धियते, प्रथमायां किल पौर्णमास्यां पृष्टमित्येकेन गुण्यते, एकेन गुणितं तदेव भवति, ततस्तस्मादभिजितो नव मुहूर्ता एकस्य च मुहूर्तस्य चतुर्विंशति
षष्टिभागा एकस्य द्वापष्टिभागस्य षट्षष्टिः सप्तपष्टिभागा इत्येवंपरिमाणं शोधनकं शोधनीयं, तत्र षषष्टेनव मुहूर्ताः शुद्धाः स्थिताः पश्चात्सप्तपश्चाशत् , तेभ्य एको मुद्दोंगृहीत्वा द्वाषष्टिभागीकृतस्ते च द्वापष्टिरपिद्वापष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते, जानाः सप्तषष्टिः द्वापष्टिभागास्तेभ्यश्चतुर्विशतिः शुद्धाःस्थिताः पश्चात्रिचत्वारिंशत् , तेभ्य एक रूपमादाय सप्तष
dain Education International
For Personal & Private Use Only
www.jainelibrary.org