________________
सूर्यप्रज्ञप्तिवृत्तिः (मल.) ॥११४॥
१० प्राभूत |६प्राभृतप्राभृतंपूर्णिमादि
BHASHA
नक्षत्रं सू ३८
एवमुत्तरत्रापि भावार्थो भावनीयः, तथा विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषु शोधनकं द्वेशते द्विनवत्यधिके २९२, अथा- नन्तमुत्तराषाढापर्यन्तानि नक्षत्राण्यधिकृत्य शोध्यानि चत्वारि शतानि द्विचत्वारिंशदधिकानि ४४२, 'एयं पुणे त्यादिगाथा, एतदनन्तरोक्तं शोधनकं सकलमपि पुनर्वसुसत्कद्वापष्टिभागसहितमवसेयं, एतदुक्तं भवति-ये पुनर्वसुसत्का द्वाविंशतिर्मुहूर्तास्ते सर्वेऽप्युत्तरस्मिन् शोधनकेऽन्तःप्रविष्टाः प्रवर्तन्ते, नतु द्वापष्टिभागाः, ततो यद्यच्छोधनक शोध्यते तत्र तत्र पुनर्वसुसत्काः षट्चत्वारिंशद् द्वापष्टिभागा उपरितना शोधनीया इति, एतच्च पुनर्वसुप्रभृत्युत्तराषाढापर्यन्तं प्रथम शोधनकं, अत ऊर्ध्वमभिजितमादिं कृत्वा द्वितीयं शोधनकं वक्ष्यामि, तत्र प्रतिज्ञातमेव निर्वाहयति–'अभिइस्से'त्यादिगाथाचतुष्टयं, अभिजितो नक्षत्रस्य शोधनकं नव मुहूर्त्ता एकस्य च मुहूर्तस्य सत्काश्चतुर्विंशतिषष्टिभागाः, एकस्य च द्वापष्टिभागस्य सप्तषष्टिश्छेदकृताः परिपूर्णाः षट्षष्टिभागाः, तथा एकोनषष्टं-एकोनषष्ट्यधिक शतं प्रोष्ठपदानां-उत्तरभद्रपदानां शोधनकं, किमुक्तं भवति ?-एकोनषष्ट्यधिकेन शतेनाभिजिदादीन्युत्तरभद्रपदापर्यन्तानि नक्षत्राणि शुद्ध्यन्ति, एवमुत्तरत्रापि भावना कर्त्तव्या, तथा त्रिषु नवोत्तरेषु शतेषु रोहिणिका-रोहिणिपर्यन्तानि शुद्ध्यन्ति, तथा त्रिषु नवनवतेषु-नवनवत्यधिकेषु शतेषु शोधितेषु पुनर्वसुपर्यन्तं नक्षत्रजातं शुद्ध्यति, तथा एकोनपञ्चाशदधिकानि पञ्च शतानि प्राप्य फाल्गुन्यश्च-उत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्ध्यन्ति, विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषु एकोनसप्तत्यधिकानि षट शतानि ६६९ शोध्यानि, मूलपर्यन्ते नक्षत्रजाते सप्त शतानि चतश्चत्वारिंशदधिकानि शोध्यानि ७४४, उत्तराषाढानाउत्तराषाढापर्यन्तानां नक्षत्राणां शोधनकमष्टौ शतानि एकोनविंशत्यधिकानि ८१९, सर्वेष्वपि च शोधनेषूपरि अभिजितो
645555
॥११४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org