________________
5555
भागा सत्तद्विछेअकया ॥ ७ ॥ उगुणटुं पोट्ठवयातिसु चेव नवोत्तरं च रोहिणिया । तिसु नवनवएसु भवे पुणवसू फग्गुणीओ य ॥८॥ पंचेव उगुणपन्नं सयाइ उगुणुत्तराई छच्चेव । सोज्झाणि विसाहासुं मूले सत्तेव चोआला ॥९॥ अट्ठसय उगुणवीसा सोहणगं उत्तराण | साढाणं । चउवीसं खलु भागा छावट्ठी चुण्णिआओ य ॥ १०॥ एआइ सोहइत्ता जं सेसं तं हवेइ नक्खत्तं । इत्थं करेइ उडवइ सूरेण
समं अमावासं ॥ ११ ॥ इच्छापुन्निमगुणिओ अवहारो सोत्थ होइ कायवो । तं चेव य सोहणगं अभिई अ ई तु काय ॥ १२ ॥ सुद्धमि & अ सोहणगे जं सेसं तं भविज नक्खत्तं । तत्थ य करेइ उडुवइ पडिपुन्नो पुन्निमं विउलं ॥ १३ ॥.
एतासां गाथानां क्रमेण व्याख्या-याममावास्यामिह-युगे ज्ञातुमिच्छसि, यथा कस्मिन्नक्षत्रे वर्तमाना परिसमाप्ता भवतीति तावद्रूपैर्यावत्योऽमावास्या अतिक्रान्तास्तावत्याः सङ्ख्याया इत्यर्थः, वक्ष्यमाणस्वरूपं अवधार्यते-प्रथमतया स्थाप्यते इत्वबधार्यो-ध्रुवराशिस्तमवधार्यराशिं पट्टिकादौ स्थापयित्वा चतुर्विशत्यधिकेन पर्वशतेन सङ्गणयेत्, अथ किंप्रमाणोऽसाववधार्यों राशिरिति तत्प्रमाणनिरूपणार्थमाह-'छावट्ठी' गाहा, षट्पष्टिर्मुहर्ता एकस्य च मुहूर्तस्य पञ्च परिपूर्णा द्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य एकः सप्तषष्टितमो भागः, एतावत्प्रमाणोऽवधार्यराशिः, कथमेतावत्प्रमाणस्यास्योत्पत्तिरिति चेत् ?, उच्यते, इह यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ?, राशित्रयस्थापना-१२४।५।२। अत्रान्त्येन राशिना द्विकलक्षणेन मध्यो राशिः पञ्चलक्षणो गुण्यते, जाता दश, तेषां चतुर्विंशत्यधिकेन शतेन भागहरणं, तत्र छेद्यच्छेदकराश्योर्द्विकेनापवर्त्तना क्रियते, जात उपरितनश्छेद्यो राशिः पञ्चकरूपोऽऽधस्तनो द्वाषष्टिरूपः, लब्धाः पञ्च द्वाषष्टिभागाः, एतेन नक्षत्राणि कर्त्तव्यानीति नक्षत्रकरणार्थमष्टा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org