SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ सद्धि जोयं जोएंति ते णं छ, तंजहा-उत्तराभद्दवता रोहिणी पुणन्वसू उत्तरफग्गुणी विसाहा उत्तरासाढा ( सू ३४ ) दसमस्स बित्तीयमिति ॥ 'ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषामनन्तरोदितानामष्टाविंशतेर्नक्षत्राणां मध्येऽस्ति तन्नक्षत्रं यच्चतुरोऽहोरात्रान् षट् च मुहूर्त्तान् यावत् सूर्येण सार्द्धं योगमुपैति तथा अस्तीति सन्ति तानि यानि षट् अहोरात्रान् एकविं शतिं च मुहूर्त्तान् सूर्येण सार्द्ध योगं युञ्जन्ति, तथा सन्ति तानि नक्षत्राणि यानि त्रयोदश अहोरात्रान् द्वादश मुहूर्त्तान् यावत्सूर्येण सह योगमुपयन्ति, तथा सन्ति तानि नक्षत्राणि यानि विंशतिमहोरात्रान् त्रीन् मुहूर्त्तान् यावत्सूर्येण समं योगं युञ्जन्ति, एवं भगवता सामान्येनो के विशेषावगमनिमित्तं भूयोऽपि भगवान् गौतमः पृच्छति - 'ता एएसि ण'मित्यादि, सुगमं, भगवान् निर्वचनमाह - 'ता एएसि ण' मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेर्नक्षत्राणां मध्ये यन्नक्षत्रं चतुरोऽहोरात्रान् पट् च मुहूर्त्तान् सूर्येण सार्द्धं योगं युनक्ति तदेकमभिजिन्नक्षत्रमवसेयं, तथाहि —सूर्ययोगविषयं पूर्वाचार्यप्रदर्शितमिदं प्रकरणं - "जं रिक्खं जावइए वच्चइ चंदेण भाग सत्तट्ठी । तं पणभागे राईदियस्स सूरेण तावइ ॥ १ ॥" अस्या अक्षरगमनिका - यत् ऋक्षं-नक्षत्रं यावतो रात्रिन्दिवस्य - अहोरात्रस्य सम्बन्धिनः सप्तषष्टिभागान् चन्द्रेण सह योगं व्रजति तन्नक्षत्रं रात्रिन्दिवस्य पञ्चभागान् तावतः सूर्येण समं व्रजति, तत्राभिजिदेकविंशतिं सप्तषष्टिभागान् चन्द्रेण समं वर्त्तते, तत एतावतः पञ्चभागानहोरात्रस्य सूर्येण समं वर्त्तमानमवसेयं, एकविंशतिश्च पञ्चभिर्भागे हृते लब्धाश्चत्वारोऽहोरात्राः एकः पञ्चमो भागोऽवतिष्ठते, स मुहूर्त्तानयनाय त्रिंशता गुण्यते, जाता त्रिंशत्तस्याः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy