________________
गोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए बजरिसहनारायसंघयणे जाव एवं वयासी इति, तस्मिन् काले तस्मिन् समये, गंशब्दो वाक्यालङ्कारार्थः, श्रमणस्य भगवतो महावीरस्य ज्येष्ठ इति प्रथमः, अन्तेवासी शिष्यः, अनेन पदद्वयेन तस्य सकलसङ्घाधिपतित्वमावेदयति, इन्द्रभूतिरिति मातापितृकृतनामधेयः, नामति प्राकृतत्वात् विभक्तिप
रिणामेन नाम्नेति द्रष्टव्यं, अन्तेवासी च किल विवक्षया श्रावकोऽपि स्यात् अतस्तदाशङ्काव्यवच्छेदार्थमाह-'अनगार' & न विद्यते अगारं-गृहमस्येत्यनगारः, अयं च विगीतगोत्रोऽपि स्यादत आह-गौतमो गोत्रेण गौतमाह्वयगोत्रसमन्वित
इत्यर्थः, अयं च तत्कालोचितदेहपरिमाणापेक्षया न्यूनाधिकदेहोऽपि स्यादत आह-सप्तोत्सेधः' सप्तहस्तप्रमाणशरीरोच्छायः, अयं चेत्थंभूतो लक्षणहीनोऽपि सम्भाव्येत अतस्तदाशङ्कापनोदार्थमाह-समचतुरस्रसंस्थानसंस्थितः समाः-शरीरलक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत्समचतुरस्र, अम्रयस्त्विह चतुर्दिगविभागोपलक्षिताः शरीरावयवा द्रष्टव्याः, अन्ये त्वाः-समा-अन्यूनाधिकाश्चतस्रोऽप्यस्रयो यत्र तत्समचतुरस्रं, अश्रयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरं १ आसनस्य ललाटोपरिभागस्य चान्तरं २ दक्षिणस्कन्धस्य वामजानुनश्चान्तरं ३ वामस्कन्धस्य दक्षिणजानुनश्चान्तर ४ मिति, अपरे त्वाः-विस्तारोत्सेधयोः समत्वात् समचतुरस्रं, तच्च तत्संस्थानं च २ संस्थान-आकारस्तेन संस्थितो-व्यवस्थितो यः स तथा, अयं च हीनसंहननोऽपि केनचित्सम्भाव्येत तत आह-'वजरिसहनारायसंघयणे' नाराचं-उभयतो मर्कटबन्धः ऋषभः-तदुपरिवेष्टनपट्टः कीलिका अस्थित्रयस्यापि भेदकमस्थि एवंरूपं संहननं यस्य स तथा, 'एवं जाव वयासी' इति, यावच्छब्दोपादानादिदमनुक्कमप्यवसेयं-कणगपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org