________________
18|मेव तत्त्वं, यस्तु तथार्थनिश्चयादिको व्यवहारः सोऽनादिकालसंलीनवासनापरिपाकसम्पादितो द्रष्टव्यः, तदप्ययुक्तम् ,
वासनाया अपि विचार्यमाणाया अघटमानत्वात् , तथाहि-सा वासना असती सती वा?, न तावदसती, असतः खरविषाणस्येव सकलोपाख्याविकलतया तथा तथाऽर्थप्रतिभासहेतुत्वायोगाद, अथ सती तर्हि सा ज्ञानाद् व्यत्यरैक्षीत् न वा?, व्यत्यरेक्षीचेदद्वैतहानिः, द्वयस्याभ्युपगमाद्, अपि च-सा ज्ञानाद् व्यतिरिक्ता सती एकरूपा वा स्यादनेकरूपा वा?, न तावदेकरूपा एकरूपत्वे तस्या नीलपीताद्यनेकप्रतिभासहेतुत्वायोगात्, खभावभेदेन विना भिन्न-13 भिन्नार्थक्रियाकरणविरोधात् , अथानेका तर्हि नामान्तरेणार्थ एव प्रतिपन्नः, तथाहि-सा वासना ज्ञानाद् व्यति-13 रिक्ता अनेकरूपा च, अर्थोऽप्येवंरूप एवेति, अथाव्यतिरिक्ता साऽपि च पूर्वविज्ञानजनिता विशिष्टज्ञानान्तरोत्पादनसमर्था शक्तिः, आह च प्रज्ञाकरगुप्तः-“वासनेति हि पूर्वविज्ञानजनितां शक्तिमामनन्ति वासनाखरूपविदः" एवं| तर्हि पूर्वपूर्वविज्ञानजनिताः कालभेदेन तत्तद्विशिष्टविशिष्टतरज्ञानोत्पादनसमर्थाः शक्तयोऽनेकाः प्रबन्धेनानुवर्तमानाः तिष्ठन्ति, तत एकस्मिन्नपि ज्ञानक्षणेऽनेका वासनाः सन्ति, शक्तीनामेव वासनात्वेनाभ्युपगमात् , तासां च ज्ञानक्ष-| णादव्यतिरेकादेकस्याः प्रबोधे सर्वासामपि प्रबोधः प्राप्नोति, अन्यथाऽव्यतिरेकायोगात् , ततो युगपदनन्तविज्ञानानामुदयप्रसङ्गः, स चायुक्तः, प्रत्यक्षबाधितत्वात् । अन्यच्च-ज्ञाने विनश्यति तदव्यतिरेकात्ता अपि निरन्वयमेव विनष्टाः, ततः कथं तत्सामर्थ्यात्कालभेदेन तत्तद्विशिष्टविशिष्टतरज्ञानान्तरप्रसूतिः ?, स्यादेतत्-पूर्वमेव विज्ञानं
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org