SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ HOSASUSASUSASUSASTISSOS ततोऽस्मादृशामपि ते प्रत्यक्षा भवेयुः, न च भवन्ति, तस्मादस्मादृशैः प्रत्यक्षत्वेनासंवेदनमेव तेपामिन्द्रियप्रत्यक्षवि-.31 पयत्वसाधने बाधकमिति न विशेषविरुद्धः, अन्यः प्राह-न विशेषविरुद्धता हेतोर्दूषणम् , अन्यथा सकलानुमानोच्छेदप्रसङ्गात् , तथाहि-यथा धूमोऽग्निं साधयति, अग्निप्रतिबद्धतया महानसे निश्चितत्वात् , तथा तस्मिन् सा-1 ध्यधर्मिण्यश्यभावमपि साधयति, तेनापि सह महानसे प्रतिबन्धनिश्चयात् , तद्यथा-नात्रयेनाग्निना अग्निमान् पर्वतो, धूमवत्त्वात् , महानसवत् , ततश्चैवं न कश्चिदपि हेतुः स्यात् , तस्मात् न विशेषविरुद्धता हेतोर्दोषः, आह च प्रज्ञाकरगुसोऽपि-"यदि विशेषविरुद्धतया क्षितिर्ननु न हेतुरिहास्ति न दृषितः । निखिलहेतुपराक्रमरोधिनी, न हि न सा सकलेन विरुद्धता॥१॥" यचोक्तम्-'अथवा अस्तु तदपि तथापि सर्वमेतावदेव जगति वस्त्विति न निश्चय इत्यादि' तदप्यसार, यतोऽवधिज्ञानं तदावरणकर्मदेशक्षयोत्थं ततोऽतीन्द्रियमपि तन्न सकलवस्तुविषयं, केवलज्ञानं तु निमूलसकलज्ञानावरणकर्मपरमाण्वपगमसमुत्थं ततः कथमिव तन्न सकलवस्तुविषयं भवेत् ?, न यतीन्द्रियस्य देशादिविप्रकाः प्रतिबन्धकाः, न च केवलप्रार्दुभावे आवरणदेशस्यापि सम्भवः, ततो यद्वस्तु तत्सर्व भगवतः प्रत्यक्षमेवेति भवति सर्वज्ञस्यैवमात्मनो निश्चयः-एतावदेव जगति वस्त्विति, यदप्युक्तम्-'अशुच्यादिरसाखादप्रसङ्ग' इति, तदपि दुरन्तदीर्घपापोदयविजृम्भितम् , अज्ञानतो भगवत्यधिक्षेपकरणात्, यो हि यादग्भूतोऽशुच्यादिरसो येषां च प्राणिनां यादृगूभूतां प्रीतिमुत्पादयति येषां च विद्विषं तत्सव तदवस्थतया भगवान् वेत्ति, ततः कथमशुच्यादिरसाखादप्रसङ्गः, अथ यदि तटस्थतया वेत्ति तर्हि न सम्यक्, सम्यक् चेत् यथाखरूपं वेत्ता तर्हि नियमात् तदाखादप्रसक्तिः, उक्तं dain Educa t ional For Personal & Private Use Only Wwww.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy