SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ वक्खे सहावओ मुच्चई जेणं ॥ १॥" ज्ञानावरणीय कर्म्मपरमाणुप्रच्यवनानुसारेण चांत्मनः शनैः शनैर्ज्ञानमधिकमधिक| तरमुल्लसति यदा तु ज्ञानादिभावनाप्रकर्षवशेनाशेषज्ञानावरणीयादिकर्मपरमाण्वपगमः तदा सकला भ्रपटलविनिर्मुक्त| शशाङ्क इव आत्मा लब्धयथावस्थितात्मखरूपः सकलस्यापि जगतोऽवभासकः, ततो ज्ञानस्य प्रकर्षः सकललोकविषयः, अथवा सर्व वस्तु सामान्येन शास्त्रेऽपि प्रतिपाद्यते यथा पञ्चास्तिकायात्मको लोकः आकाशास्तिकायात्मकश्चालोकः, किञ्चिद्विशेषतश्च ऊर्ध्वाधस्तिर्यग्लोकाकाशानां सविस्तरं तत्राभिधानात् शास्त्रानुसारेण च ज्ञानाभ्यासः, ततः तरतमभावोऽपि ज्ञानस्य सकलवस्तुविषय एवेति प्रकर्षभावः तद्विषयो न विरुध्यते, लङ्घनं तु सामान्यतोऽपि न सकललोकविषयमिति कथमभ्यासतः तत्प्रकर्षः सकललोकविषयो भवेत् ?, स्यादेतद् - यद्यपि सामान्यतः शास्त्रानु सारेण सकलवस्तुविषयं ज्ञानमुपजायते तथाऽप्यभ्यासतः तत्प्रकर्षः सकलवस्तुगताशेषविशेषविषय इति कथं ज्ञायते ?, न ह्यत्र किञ्चित् प्रमाणमस्ति न चाप्रमाणकं वचो विपश्चितः प्रतिपद्यन्ते, विपश्चित्ताक्षितिप्रसङ्गात्, तदसत् अनुमानप्रमाणसद्भावात् तच्चानुमानमिदं - जलधिजलपलप्रमाणादयो विशेषाः कस्यचित्प्रत्यक्षाः, ज्ञेय - त्वात्, घटादिगतरूपादिविशेषवत् ज्ञेयत्वं हि ज्ञानविषयतया व्यासं न च जलधिजलपलप्रमाणादिरूपेषु विशेषेषु प्रत्यक्षमन्तरेण शेषानुमानादिज्ञानसम्भवः, तथाहि - न ते विशेषा अनुमानप्रमाणगम्याः, लिङ्गाभावात्, नाप्यागमगम्याः, तस्य विधिप्रतिषेधमात्रविषयत्वात् नाप्युपमानगम्याः, तस्य प्रत्यक्षपुरस्सरत्वाद्, उक्तं च- "न Jain Education mternational For Personal & Private Use Only सर्वज्ञसिद्धिः, १३ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy