________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥ २७ ॥
Jain Education
| समानेऽपि गरुत्मच्छाखामृगशावकयोरभ्यासे न समानं लङ्घनम् उक्तं च- " गरुत्मच्छाखामृगयोर्लङ्घनाभ्याससम्भवे । समानेऽपि समानत्वं, लङ्घनस्य न विद्यते ॥ १ ॥" अपि च- पुरुषयोरपि द्वयोः समानप्रथमयौवनयोरपि समानेऽप्यभ्यासे एकः प्रभूतं लङ्घयितुं शक्नोति अपरस्तु स्तोकं, तस्माद्वलसापेक्षं लङ्घनं नाभ्यासमात्रहेतुकम् अभ्यासस्तु केवलं देहवैगुण्यमात्रमपनयति, तच बलं वीर्यान्तरायकर्मक्षयोपशमात्, क्षयोपशमश्थ जातिभेदापेक्षी द्रव्यक्षेत्राद्यपेक्षी च ततो यस्य यावद्वलं तस्य तावदेव लङ्घनमिति तन्न सकललोकविषयं, जीवस्तु शशाङ्क इव स्वरूपेण सकलजगत्प्रकाशनस्वभावः, केवलमावरणघनपटलतिरस्कृतप्रभावत्वात् न तथा प्रकाशते, उक्तं च“स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् ॥ १ ॥” ततो यथा प्रच ण्डनैर्ऋतपवनप्रहता घनपटलपरमाणवः शनैः शनैर्निःस्नेहीभूयापगच्छन्ति, तदपगमनानुसारेण च चन्द्रस्य प्रकाशो जगति वितनुते तथा जीवस्यापि रागादिभ्यः चित्तं विनिवर्त्य कायवाक् चेष्टासु संयतस्य सम्यकशास्त्रानुसारेण च यथावस्थितं वस्तु परिभावयतो ज्ञानादिभावनाप्रभावतो ज्ञानावरणीयादिकर्म्मपरमाणवः शनैः शनैर्निःस्नेहीभूयात्मनः प्रच्यवन्ते, कथमेतत्प्रत्येयमिति चेत् ?, उच्यते, इहाज्ञानादिनिमित्तकं ज्ञानावरणीयादि कर्म्म, ततः तत्प्रतिपक्षज्ञानाद्यासेवनेऽवश्यं तदात्मनः प्रच्यवते, उक्तं च- "बंध जहेव कम्मं अन्नाणाईहिं कलुसियमणो उ । तह चैव ति
१ बध्नाति यथैव कर्म अज्ञानादिभिः कलुषितमनास्तु । तथैव तद्विपक्षे स्वभावतो मुच्यते येन ॥ १ ॥
For Personal & Private Use Only
सर्वज्ञ
सिद्धिः.
१५
11-20 11
२६
www.jainelibrary.org