SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ तथाहि-तदप्यनुमानं लिङ्गलिङ्गिसम्बन्धग्रहणतो भवेत् , ततस्तत्रापि लिङ्गलिङ्गिसम्बन्धग्रहणमनुमानान्तरात्कर्त्तव्यम् ,श ★ पौरुषेयातत्रापि चेयमेव वार्तेत्यनवस्था, नाप्यागमतः सर्ववेदनविनिश्चयः, स हि पौरुषेयो वा स्यादपौरुषेयो वा ?, पौरुषेयोऽपि पौरुषेयसर्वज्ञकृतो रथ्यापुरुषकृतो वा?, तत्र न तावत् सर्वज्ञकृतः, सर्वज्ञासिद्धौ सर्वज्ञकृतत्वस्यैवाविनिश्चयात् , अपि च-एवम- त्वविचार भ्युपगमे सतीतरेतराश्रयदोषप्रसङ्गः, तथाहि-सर्वज्ञसिद्धौ तत्कृतागमसिद्धिः, तत्कृतागमसिद्धौ च सर्वज्ञसिद्धिः, अथ है। शरथ्यापुरुषप्रणीत इति पक्षस्तर्हि न स प्रमाणमुन्मत्तकप्रणीतशास्त्रवत् , अप्रमाणाच तस्मान्न सुनिश्चितसर्वज्ञसिद्धिः, अ-17 प्रमाणात्प्रमेयासिद्धेः, अन्यथा प्रमाणपर्येपणं विशीर्येत, अथापौरुषेय इति पक्षस्तर्हि ऋषभः सर्वज्ञो वर्द्धमानखामी सर्वज्ञ इत्यादिरर्थवादः प्राप्नोति, ऋषभायभावेऽपि भावात् , तथाहि-सर्वकल्पस्थायी आगमः, ऋषभादयस्त्वधुनातन-15 कल्पवर्तिनः, तत ऋषभाद्यभावेऽपि पूर्वमप्यस्यागमस्यैवमेव भावात्कथमेतेषामृषभादीनामभिधानं तत्र परमार्थसत् ?, तस्मादर्थवाद एषः, न सर्वज्ञप्रतिपादनमिति । अपि च-यद्यपौरुषेयागमाभ्युपगमस्तर्हि किमिदानीं सर्वज्ञेन ?, आग-12 मादेव धर्माधादिव्यवस्थासिद्धेः, तस्मात् नागमगम्यः सर्ववेदी, नाप्युपमानगम्यः, तस्य प्रत्यक्षपूर्वकत्वात् , तथाहि-प्रत्यक्षप्रसिद्धगोपिण्डस्य यथा गौः तथा गवय इत्यागमाहितसंस्कारस्याटव्यां पर्यटतो गवयदर्शनानन्तरं तन्नामप्रतिपत्तिरुपमानं प्रमाणं वर्ण्यते, न चैकोऽपि सर्वज्ञः प्रत्यक्षसिद्धो येन तत्सादृश्यावष्टम्भेनान्यस्य विवक्षितपुरुपस्योपमानप्रमाणतः सर्वज्ञ इति प्रतीतिर्भवेत् , नाप्यर्थापत्तिगम्यः, सा हि प्रत्यक्षादिप्रमाणगोचरीकृतार्थान्यथानु Jain Ed e rational For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy