SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ कहद इव वाचनादिप्रदानेऽपि अक्षयं नास्य क्षयोऽस्तीत्यक्ष यमक्षयत्वादेव च अव्ययं मानुषोत्तराद्वहिः समुद्रवत्, अव्ययत्वादेव सदैव प्रमाणेऽवस्थितं जम्बूद्वीपादिवत्, एवं च सदाऽवस्थानेन चिन्त्यमानं नित्यमाकाशवत्, साम्प्रतमत्रैव दृष्टान्तमाह - ' से जहानामेत्यादि, तद्यथानाम पञ्चास्तिकायाः- धर्मास्तिकायादयः न कदाचिन्नासन्नित्यादि पूर्ववत्, 'एवमेवेत्यादि निगमनं निगदसिद्धं । 'से समासओ' इत्यादि, तद्वादशाङ्गं समासतश्चतुर्विधं प्रज्ञतं, तद्यथा - द्रव्यतः | क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतो 'ण' मिति वाक्यालङ्कारे श्रुतज्ञानी उपयुक्तः सर्वद्रव्याणि जानाति पश्यति, तत्राह - ननु पश्यतीति कथं ?, न हि श्रुतज्ञानी श्रुतज्ञानज्ञेयानि सकलानि वस्तूनि पश्यति, नैष दोषः, उपमाया अत्र विवक्षितत्वात् पश्यतीव पश्यति, तथाहि - मेर्वादीन् पदार्थानदृष्टानप्याचार्यः शिष्येभ्य आलिख्य दर्शयति तत्स्तेषां श्रोतॄणामेवं बुद्धिरुपजायते भगवानेष गणी साक्षात्पश्यन्निव व्याचष्टे इति, एवं क्षेत्रादिष्वपि भावनीयं ततो न कश्चिद्दोषः, अन्ये तु न पश्यतीति पठन्ति, तत्र चोद्यस्यानवकाश एव, श्रुतज्ञानी चेहाभिन्नदशपूर्व धरादिश्रुतकेवली परिगृह्यते, तस्यैव नियमतः श्रुतज्ञानवलेन सर्वद्रव्यादिपरिज्ञानसम्भवात्, तदारतस्तु ये श्रुतज्ञानिनस्ते सर्वद्र| व्यादिपरिज्ञाने भजनीयाः, केचित्सर्वद्रव्यादि जानन्ति केचिन्नेति भावः, इत्थम्भूता च भजना मतिवैचित्र्याद्वेदि - तव्या, आह च चूर्णिकृत् - "आरओ पुण जे सुयनाणी ते सवदवनाणपासणासु भइया, सा य भयणा मइविसेसओ जाणियवत्ति ।” सम्प्रति सङ्ग्रहगाथामाह - Jain Education International For Personal & Private Use Only द्वादशायाआराधनाविराधनाफलं स्वरूपं च सू. ५८ १० १३ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy