________________
ॐ अर्हम् ।
श्रीमन्मलयगिर्याचार्यप्रणीतवृत्तियुतं श्रीमदार्यमहागिर्यावलिकागतश्रीमदृष्यगणिशिष्याचार्यवर्यश्रीमद्देववाचकक्षमाश्रमणनिर्मित
श्रीमत् नन्दीसूत्रम्।
जयति भुवनैकभानुः सर्वत्राविहतकेवलालोकः । नित्योदितः स्थिरस्तापवर्जितो वर्धमानजिनः॥१॥ जयति जगदेकमङ्गलमपहतनिःशेषदुरितघनतिमिरमारविबिम्बमिव यथास्थितवस्तुविकाशं जिनेशवचः | इह सर्वेणैव संसारमध्यमध्यासीनेन जन्तुना नारकतिर्यग्नरामरगतिनिबन्धनविविधशारीरमानसानेकदुःखोपनिपात-13 पीडितेन पीडानिर्वेदतः संसारपरिजिहीर्षया जन्मजरामरणरोगशोकाद्यशेषोपद्रवासंस्पृश्यपरमानन्दरूपनिःश्रेयसपदमधिरोढुकामेन तदवाप्तये खपरसममानसीभूय खपरोपकाराय यतितव्यम्, तत्रापि महत्यामाशयविशुद्धौ परोपकृतिः | कर्तुं शक्यते इत्याशयविशुद्धिप्रकर्षसम्पादनाय विशेषतः परोपकारे यत्न आस्थेयः, परोपकारश्च द्विधा-द्रव्यतो भा
Jain Education International
For Personal & Private Use Only
Jainelibrary.org