SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ प्रथमश्रुतस्कन्धे धर्मकथा द्वितीयश्रुतस्कन्धे यासु ग्रन्थपद्धतिषु (ता) ज्ञाताधर्मकथाः पृषोदरादित्वात्पूर्वपदस्य दीर्घान्तता, सूरिराह - ज्ञाताधर्मकथासु 'ण' मिति वाक्यालङ्कारे ज्ञातानाम् - उदाहरणभूतानां नगरादीनि व्याख्यायते तथा धम्मकहाणं वग्गा' इत्यादि, इह प्रथमश्रुतस्कन्धे एकोनविंशतिर्ज्ञाताध्ययनानि ज्ञातानि - उदाहरणानि तत्प्रधानानि अध्ययनानि द्वितीयश्रुतस्कन्धे दश धर्मकथाः धर्मस्य - अहिंसादिलक्षणस्य प्रतिपादिकाः कथा धर्मकथाः, अथवा धर्मादनपेता धर्म्याः धर्म्याश्च ताः कथाश्च धर्म्यकथाः, तत्र प्रथमे श्रुतस्कन्धे यान्येकोनविंशतिर्ज्ञाताध्ययनानि तेष्वादिमानि दश ज्ञातानि ज्ञातान्येव न तेष्वाख्यायिकादिसम्भवः, शेषाणि पुनर्यानि नव ज्ञातानि तेष्वेकैकस्मिन् चत्वारिं| शानि पञ्च पञ्चाख्यायिकाशतानि ५४० [च] भवन्ति ४८६० एकैकस्यां चाख्यायिकायां पञ्च पञ्च उपाख्यायिकाशतानि | २४३०००० एकैकस्यां चोपाख्यायिकायां पञ्च पञ्च आख्यायिकोपाख्यायिकाशतानि सर्वसङ्ख्यया १२१५०००००० एकविंशं कोटिशतं लक्षाः पञ्चाशत्, तत एवं कृते सति प्रस्तुतसूत्रस्यावतारः, आह च टीकाकृत् - " इगवीसं कोडिसयं लक्खा | पन्नास चैव बोद्धवा । एवं कए समाणे अहिगयसुत्तस्स पत्थावो ॥ १ ॥” द्वितीये श्रुतस्कन्धे दशधर्मकथानां वर्गाः, वर्गःसमूहः, दश धर्म्मकथासमुदाया इत्यर्थः, त एव च दशाध्ययनानि, एकैकस्यां धर्म्मकथायां समूहरूपायामध्ययनप्र| माणायां पञ्च पञ्चाख्यायिकाशतानि, एकैकस्यां चाख्यायिकायां पञ्च पञ्च उपाख्यायिकाशतानि एकैकस्यां चोपाख्यायिकार्यां पञ्च पञ्च आख्यायिकोपाख्यायिकाशतानि सर्वसङ्ख्यया पञ्चविंशं कोटिशतं, इह नव ज्ञाताध्ययनसम्बन्ध्याख्यायि Jain Education international For Personal & Private Use Only व्याख्याधिकारः ज्ञाता धिकार सू. ५०-५१ ५ १० १३ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy