SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ धिकानां पाखण्डिकशतानां प्रतिक्षेपः सूत्रकृताङ्गे शेषेषु च प्रकरणेषु पूर्णचार्यैरनेकधा युक्तिभिः कृतस्ततो वयमपि अज्ञानवाद्यस्थानाशून्याथै पूर्वाचार्यकृतं तेषां प्रतिक्षेपं सक्षेपतो दर्शयामः-तत्र ये कालवादिनः सर्व कालकृतं मन्यन्ते तान्ह धिकारः प्रति ब्रमः-कालो नाम किमेकखभावो नित्यो व्यापी? किंवा समयादिरूपतया परिणामी?. तत्र यद्याद्यः पक्षः । तदयुक्तं, तथाभूतकालग्राहकप्रमाणाभावात् , न खलु तथाभूतं कालं प्रत्यक्षेणोपलभामहे, नाप्यनुमानेन, तदविना-12 ||भाविलिङ्गाभावात् , अथ कथं तदविनाभाविलिङ्गाभायो ? यावता दृश्यते भरतरामादिषु पूर्वापरव्यवहारः, स च न 81 वस्तुखरूपमात्रनिमित्तो, वर्तमाने च काले वस्तुखरूपस्य विद्यमानतया तथाव्यवहारप्रवृत्तिप्रसक्तेः, ततो यन्निमित्तोऽयं ६ भरतरामादिषु पूर्वापरव्यवहारः स काल इति, तथाहि-पूर्वकालयोगी पूर्वो भरतचक्रवर्ती अपरकालयोगी चापरोरामा|दिरिति, ननु यदि भरतरामादिषु पूर्वापरकालयोगतः पूर्वापरव्यवहारस्तर्हि कालस्यैव कथं स्वयं पूर्वापरव्यवहारः, तदन्यकालयोगादिति चेत् , न, तत्रापि स एव प्रसङ्ग इत्यनवस्था, अथ मा भूदेष दोष इति तस्य खयमेव पूर्वत्वमपरत्वं 31 है चेष्यते नान्यकालयोगादिति, तथा चोक्तम्-"पूर्वकालादियोगी यः, स पूर्वाद्यपदेशभाक् । पूर्वापरत्वं तस्यापि, खरूपादेव हू. १० PIनान्यतः॥१॥" तदप्याकण्ठपीतासवप्रलापदेशीयं, यत एकान्तेनैको व्यापी नित्यः कालोऽभ्युपगम्यते, ततः कथं तस्य पूर्वादित्वसम्भवः?, अथ सहचारिसम्पर्कवंशादेकस्यापि तथात्वकल्पना, तथाहि-सहचारिणो भरतादयः पूर्वाः अपरे च रामादयोऽपरास्ततस्तत्सम्पर्कवशात्कालस्यापि पूर्वापरव्यपदेशः, भवति च सहचारिणो व्यपदेशो यथा मञ्चाः SAUSAHAHARASHURIERX Jain E linternational For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy