________________
HALAGALLERGARH
“खर्गोश्यादिशब्दश्च, दृष्टोऽरूढार्थवाचकः । शब्दान्तरेषु तादृक्षु, तादृश्येवास्तु कल्पना ॥ १ ॥” स्यादेतद्-अग्नि
होत्रादेर्वाक्यस्य खमांसभक्षणप्रसङ्गो न युक्तो, वेदेनैवान्यत्र तस्यान्यथा व्याख्यानात्, तदयुक्तम् , तत्रापि वाक्या-18 पार्थस्य निर्णयाभावात् , यथोक्तं प्राक्-न हि अप्रसिद्धार्थस्य वाक्यस्य अप्रसिद्धार्थमेव वाक्यान्तरं नियतार्थप्रसाधना
यालं, तुल्यदोषत्वात् , अथेत्थमाचक्षीथाः-यत्रार्थे न काचित्प्रमाणबाधा सोऽर्थो ग्राह्यो, न चाग्निहोत्रादिवाक्यस्य घृताहुतिप्रक्षेपरूपेऽर्थे प्रमाणबाधामुत्पश्यामः, तत्कथं तमर्थ न गृह्णीमः ?, तदेतत् खमांसभक्षणलक्षणेऽप्यर्थे समान, न हि तत्रापि कांचित्प्रमाणबाधामीक्षामहे, अपि च-यदि प्रमाणबलात्प्रवृत्तिमीहसे तर्हि पौरुषेयमेव वचस्त्वयो- पादेयं, तस्य लोकप्रतीत्यनुसारितया सम्प्रदायतोऽधिगतार्थतया च प्रायो युक्तिविषयत्वात् , नापौरुषेयं, विपरीततया : तत्र युक्तेरसम्भवात् , तथाहि-काऽत्र युक्तिः ? यया खमांसभक्षणात् खर्गप्राप्तिर्वाध्यते, न घृताहुतिप्रक्षेपादिति ?,
घृताद्याहुतिप्रक्षेपादीनां खर्गप्रापणादिशक्तेरतीन्द्रियत्वेन प्रत्यक्षाद्यगोचरत्वात् , सम्प्रदायस्य चार्थनेयत्यकारिणोऽस- १० हैम्भवाद्, एतच्चानन्तरमेव वक्ष्यामः, अथागमार्थाश्रया युक्तिः खमांसभक्षणतः खर्गप्राप्तेर्वाधिका भविष्यति, तदयुक्तम्,
आगमार्थस्याद्याप्यनिश्चयात् अनिश्चितार्थस्य च बाधकत्वायोगात् , अथ सम्प्रदायादर्थनिश्चयो भविष्यति, तथाहिप्रथमतो वेदेन जैमनये खार्थ उपदर्शितः पश्चात्तेनास्मभ्यमुपदिष्ट इति, तदप्यसत्, वेदस्य हि यदि खार्थोपदर्शने १३ शक्तिः ततोऽस्मभ्यमपि स्वार्थ किं नोपदर्शयति ?, तस्माजैमनयेऽपि न तेन खार्थो दर्शितः, किन्तु स वेदमुखेनात्मा-12
T
Jain Educati
a inelibrary.org
For Personal & Private Use Only
o
n