SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ मतिमेधादिगुणानां तत्तद्धर्मविशिष्टानन्तधर्मात्मकवस्तुप्रतिपत्तिभावात् , एतच टीकाकृतो व्याख्यानं, चूर्णिकृत् । आचाराहै पुनराह-अभिधानाभिधेयवशतो गमा भवन्ति, ते चानन्ताः, अनेन च प्रकारेण ते वेदितव्याः, तद्यथा-'सुयं मे 8 गाधिकार सू. ४६ आउसंतेणं भगवया एवमक्खाय'मिति, इदं च सुधर्मखामी जम्बूखामिनं प्रत्याह, तत्रायमर्थः-श्रुतं मया हे आयु-| मन् ! तेन-भगवता वर्द्धमानखामिना एवमाख्यातं, अथवा श्रुतं मया 'आयुष्मदन्ते' आयुष्मतो-भगवतो वर्द्धमानखामिनोऽन्ते-समीपे 'ण'मिति वाक्यालङ्कारे, तथा च भगवता एवमाख्यातं, अथवा श्रुतं मयाऽऽयुष्मता, अथवा श्रुतं मया भगवत्पादारविन्दयुगलमामृशता, अथवा श्रुतं मया गुरुकुलवासमावसता, अथवा श्रुतं मया हे आयुष्मन् ! होतेणं'ति प्रथमार्थे तृतीया तद्भगवता एवमाख्यातं, अथवा श्रुतं मयाऽऽयुष्मन् ! 'तेणं'ति तदा भगवता एवमाख्यातं, 18 अथवा श्रुतं मया हे आयुष्मन् ! ते णं'ति षड्जीवनिकायविषये तत्र वा विवक्षिते समवसरणे स्थितेन भगवता एव-12 माख्यातं, अथवा श्रुतं मम हे आयुष्मन् ! वर्त्तते, यतस्तेन भगवता एवमाख्यातं, एवमादयस्तं तमर्थमधिकृत्य गमा 8 भवन्ति, अभिधानवशतः पुनरेवं गमाः-"सुयं मे आउसं आउसं सुयं मे मे सुयं आउस"मित्येवमर्थभेदेन तथा २ पदानां संयोजनतोऽभिधानगमा भवन्ति, एवमादयः किल गमाः अनन्ता भवन्ति, तथा अनन्ताः पर्यायाः, ते च स्वप-11 हरभेदभिन्ना अक्षरार्थगोचरा वेदितव्याः, तथा परीताः-परिमितास्त्रसा-द्वीन्द्रियादयः, अनन्ताः स्थावराः-वनस्पतिका यादयः, 'सासयकडनिबद्धनिकाइय'त्ति शाश्वता-धर्मास्तिकायादयः कृताः-प्रयोगविलसाजन्या घटसन्ध्याभरागादयः, PORANGEROUSURGES Jain Edu ational For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy