________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥२०५॥
गणः सोऽस्यास्तीति गणी - आचार्यस्तस्य विद्या - ज्ञानं गणिविद्या, सा चेह ज्योतिष्कनिमित्तादिपरिज्ञानरूपा वेदि - तव्या, ज्योतिष्कनिमित्तादिकं सम्यक् परिज्ञाय प्रत्राजन सामायिकारोपणोपस्थापनश्रुतोद्देशानुज्ञागणारोपणादिशानुज्ञाविहार क्रमादिषु प्रयोजनेषूपस्थितेषु प्रशस्ते तिथिकरणमुहूर्त्तनक्षत्रयोगे यत् यत्र कर्त्तव्यं भवति तत्तत्र सूरिणा कर्त्तव्यं, तथा चेन्न करोति तर्हि महान् दोषः उक्तं च - " जोइसनिमित्तनाणं गणिणो पञ्चावणाइकजेसुं । उवजुजर तिहिकरणाइजाणणटुन्ना दोसो ॥ १ ॥ " ततो यानि सामायिकादीनि प्रयोजनानि यत्र तिथिकरणादौ कर्त्तव्यानि भवन्ति तानि तत्र यस्यां ग्रन्थपद्धतौ व्यावर्ण्यन्ते सा गणिविद्या, तथा 'ध्यानविभक्ति' रिति ध्यानानि - आर्त्तध्यानादीनि तेषां विभजनं विभक्तिर्यस्यां ग्रन्थपद्धती सा ध्यानविभक्तिः, तथा मरणानि - प्राणत्यागलक्षणानि, तानि च द्विधा - प्रशस्तान्यप्रशस्तानि च तेषां विभजनं पार्थक्येन खरूपप्रकटनं यस्यां ग्रन्थपद्धतौ सा मरणविभक्तिः, तथाऽऽत्मनो - जीवस्यालोचनप्रायश्चित्तप्रतिपत्तिप्रवृत्तिप्रकारेण विशुद्धिः - कर्मविगमलक्षणा प्रतिपाद्यते यस्यां ग्रन्थपद्धतौ साऽऽत्मविशुद्धिः, तथा 'वीतरागश्रुत' मिति सरागव्यपोहेन वीतरागस्वरूपं प्रतिपाद्यते यत्राध्ययने तद्वीत - रागश्रुतं, तथा 'संलेखना श्रुत' मिति द्रव्यभावसंलेखना यत्र श्रुते प्रतिपाद्यते तत्संलेखनाश्रुतं, तत्रोत्सर्गत इयं द्रव्यसं
Jain Education International
१ ज्योतिषनिमित्तज्ञानं गणिनः प्रयाजनादिकार्येषु । उपयुज्यते तिथिकरणादिज्ञानार्थमन्यथा दोषः ॥ १ ॥
For Personal & Private Use Only
उत्कालि
काधि०
२०
॥२०५॥ २४
www.jainelibrary.org