________________
संवादादिति चेत् नन्वतीन्द्रियेष्वर्थेषु न प्रमाणस्यावतारो, यथा अग्निहोत्रहवनस्य स्वर्गसाधनत्वे, बहवश्वातीन्द्रिया अर्धा वेदे व्यावर्ण्यन्ते, तत्कथं तत्र संवादः १, अथ येष्वर्थेष्वस्मादृशां प्रमाणसम्भवः तद्विषये प्रमाण संवाददर्शनादती - न्द्रियाणामप्यर्थानां स सम्यक् परिज्ञाताऽभ्युपगम्यते, तदप्ययुक्तम्, रागादिकलुषिततया तस्यातीन्द्रियार्थपरिज्ञानासम्भवाद्, अन्यथा सर्वेषामप्यतीन्द्रियार्थप्रदर्शित्वप्रसक्तिस्ततः तत्कृतातीन्द्रियार्थव्याख्या मिथ्यैव, अपि चआगमोऽर्थतः परिज्ञातः सन् प्रेक्षावतामुपयोगविषयो भवति, नापरिज्ञातार्थ शब्दगडुमात्रं ततोऽर्थः प्रधानः, स चेत्पुरुषप्रणीतः किं शब्दमात्रस्या पौरुषेयत्वपरिकल्पनेन ?, निरर्थकत्वात्, तन्नान्यतोऽपि वेदार्थस्य सम्यगवगमः, नापि वेदः स्वकीयमर्थमुपदेशमन्तरेण स्वयमेव साक्षादुपदर्शयति, ततो वेद स्पेष्टार्थप्रतिपत्त्युपायाभावाद् 'अग्निहोत्रं जुहुयात्स्वर्गकाम' इति श्रुतौ यथा वेदप्रामाणिकैरयमर्थः परिकल्प्यते - 'घृताद्याहुतिं परिक्षिपेत् खर्गकाम' इति, तथाऽयमप्यर्थः तैः किं न कल्प्यते ? - खादेत्खमांसं खर्गकाम इति, नियामकाभावाद्र, उक्तं च- "स्वयं रागादिमान्नार्थ, वेत्ति वेदस्य नान्यतः । न वेदयति वेदोऽपि वेदार्थस्य कुतो गतिः १ ॥ १ ॥ तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ । खादेत्खमांसमित्येष, नार्थ इत्यत्र का प्रमा ? ॥ २ ॥ अथ य एव शाब्दो व्यवहारो लोके प्रसिद्धः स एव वेदवाक्यार्थनिश्चयनिबन्धनं, न च लोकेऽग्निहोत्रशब्दस्य स्वमांसं वाच्यम्, नापि जुहुयादित्यस्य भक्षणं, तत्कथमयमर्थः परिकल्प्यते ?, तदयुक्तम्, नानार्था हि लोके शब्दा रूढाः, यथा गोशब्दः, अपि च सर्वे
Jain Education International
For Personal & Private Use Only
'अनिहोत्र' इति वाक्यार्थविचारः. •
१३
www.jainelibrary.org