________________
जगति रूपिद्रव्याणां ये गुरुलघुपर्याया ये च रूपिद्रव्याणामरूपिद्रव्याणां वाऽगुरुलघुपर्यायास्तान् सर्वानपि साक्षात्क रतलकलितमुक्ताफलमिव केवलालोकेन प्रतिक्षणमवलोकते भगवान्, न च येन खभावेनैकं पर्यायं परिच्छिनत्ति तेनैव स्वभावेन पर्यायान्तरमपि तयोः पर्याययोरेकत्वप्रसक्तेः, तथाहि — घटपर्यायपरिच्छेदनखभावं यज्ज्ञानं तद्यदा पटपर्यायं परिच्छेत्तुमलं तदा पटपर्यायस्यापि घटपर्यायरूपताऽऽपत्तिः, अन्यथा तस्य तत्परिच्छेदकत्वानुपपत्तेः, तथारूपखभावाभावात्, ततो यावन्तः परिच्छेद्याः पर्यायास्तावन्तः परिच्छेदकास्तस्य केवलज्ञानस्य स्वभावा वेदितव्याः खभावाश्च पर्यायास्ततः पर्यायानधिकृत्य सर्वद्रव्यपर्यायपरिमाणं केवलज्ञानमुपपद्यते, यदकारादिकं वर्णजातं तत्कथं सर्वद्रव्यपर्यायपरिमाणं भवितुमर्हति ?, तत्पर्याय राशेः सर्वद्रव्य पर्यायाणामनन्ततमे भागे वर्त्तमानत्वात्, तदयुक्तं, अकारादेरपि | स्वपरपर्याय भेदभिन्नतया सर्वद्रव्यपर्यायपरिमाणतुल्यत्वाद्, आह च भाष्यकृत् - 'एकेक मक्खरं पुण सपरपज्जायभयेओ भिन्नं । तं सङ्घदवपज्जायरासिमाणं मुणेयच्वं ॥ १॥" अथ कथं खपरपर्यायापेक्षया सर्वद्रव्यपर्यायराशितुल्यता ?, उच्यते, इह अ अ अ इत्युदात्तो ऽनुदात्तः खरितश्च, पुनरप्येकैको द्विधा - सानुनासिको निरनुनासिकश्चेत्यकारस्य षड् भेदाः, तांश्च षड् भेदानकारः केवलो लभते, एवं ककारेणापि संयुक्तो लभते पड् भेदानेवं खकारेण एवं यावद्धकारेण, एवमे| कैककेवलव्यञ्जनसंयोगे यथा षट् २ भेदान् लभते तथा सजातीयविजातीयव्यञ्जनद्विक संयोगेऽपि, एवं खरान्तरसंयु
१ एकैकमक्षरं पुनः खपरपर्याय मेदतो भिन्नम् । तत् सर्वेद्रव्यपययराशिमानं ज्ञातव्यम् ॥ १ ॥
Jain Education International
For Personal & Private Use Only
खपूरपर्यायाः
५
१२
www.jainelibrary.org