________________
तस्य श्रोत्रेन्द्रियनिमित्तत्वात्, यत्पुनश्चक्षुषा आम्रफलाद्युपलभ्याम्रफलमित्याद्यक्षरानुविद्धं शब्दार्थपर्यालोचनात्मक
अक्षराविज्ञानं तचक्षुरिन्द्रियलब्ध्यक्षरं, एवं शेषेन्द्रियलब्ध्यक्षरमपि भावनीयं, 'सेत्त'मित्यादि, तदेतत् लब्ध्यक्षरं, तदेतद- नक्षरश्रुतं |क्षरश्रुतं । अथ किं तदनक्षरश्रुतं ?-अनक्षरात्मकं श्रुतमनक्षरश्रुतं, आचार्य आह-अनक्षरश्रुतमनेकविधम्-अनेकप्रकार
सू.३९ प्रज्ञप्तं, तद्यथा-'ऊससिय'मित्यादि, उच्छ्रसनमुच्छसितं, भावे निष्ठाप्रत्ययः, तथा निःश्वसनं निःश्वसितं निष्ठीवनं । निष्ठत्यूतं कासनं कासितं, चशब्दः समुच्चयार्थः, क्षवणं श्रुतं, एषोऽपि चशब्दः समुच्चयार्थः परमस्य व्यवहितः प्रयोगः, B५ सेंटितादिकं चेत्येवं द्रष्टव्यः, तथा निस्सिंघनं निस्सिचितं, अनुखारवदनुखारं, सानुखारमित्यर्थः, तथा सेंटितादिकं | चानक्षरश्रुतं, इह उच्छसितादि द्रव्यश्रुतं द्रष्टव्यं,ध्वनिमात्रत्वाद्भावश्रुतस्य कारणत्वात्कार्यत्वाच, तथाहि-यदाऽभिसन्धिपूर्वकं स विशेषतरमुच्छ्रसितादि कस्यापि पुंसः कस्यचिदर्थस्य ज्ञसये प्रयुङ्क्ते तदा तदुच्छसितादि प्रयोक्तु वश्रुतस्य फलं श्रोतुश्च भावश्रुतस्य कारणं भवति ततो द्रव्यश्रुतमित्युच्यते, अथ ब्रवीथाः-एवं तर्हि करादिचेष्टाया अपि द्रव्यश्रुतत्वप्रसङ्गः, साऽपि हि बुद्धिपूर्विका क्रियमाणा तत्कनु वश्रुतस्य फलं द्रष्टुश्च भावश्रुतस्य कारणमिति, नेष दोषः,||१० श्रुतमित्यन्वर्थाश्रयणात् , तथाहि-यच्छूयते तच्छुतमित्युच्यते, न च करादिचेष्टा श्रूयते, ततो न तत्र द्रव्यश्रुतत्वप्रसङ्गः, उच्छसितादिकं तु श्रूयते अनक्षरात्मकं च ततस्तदनक्षरश्रुतमित्युक्तं, 'सेत्त'मित्यादि, तदेतदनक्षरश्रुतं ॥
से किं तं सण्णिसुअं?, २ तिविहं पण्णत्तं, तंजहा-कालिओवएसेणं हेऊवएसेणं दिदिवाओव
dain Educ
a
tional
For Personal & Private Use Only
O
ww.jainelibrary.org