SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ श्रीमलय II 'तं समासओ' इत्यादि, 'तत्' मतिज्ञानं 'समासतः' सझेपेण चतुर्विधं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च,BIमतेविषयोगिरीया तत्र द्रव्यतो 'ण'मिति वाक्यालङ्कारे, आभिनिवोधिकज्ञानी 'आदेसेणं'ति आदेश:-प्रकारः, स च द्विधा-सामान्यरूपो मेदाःकालः नन्दीवृत्तिः विशेषरूपश्च, तत्रेह सामान्यरूपो ग्राह्यः, तत आदेशेन-द्रव्यजातिरूपसामान्यादेशेन सर्वव्याणि-धर्मास्तिकायादीनि स्पृष्टतादि ॥१८४ाजानाति किञ्चिद्विशेषतोऽपि, यथा धर्मास्तिकायो धर्मास्तिकायस्य प्रदेशः, तथा धर्मास्तिकायो गत्युपष्टम्भहेतुर मूर्तो लोकाकाशप्रमाण इत्यादि, न पश्यति-सर्वात्मना धर्मास्तिकायादीन्न पश्यति, घटादींस्तु योग्यदेशावस्थितान् पश्यत्यपि, अथवा आदेश इति-सूत्रादेशस्तस्मात्सूत्रादेशात्सर्वद्रव्याणि-धर्मास्तिकायादीनि जानाति, न तु साक्षात् है सर्वाणि पश्यति, ननु यत्सूत्रादेशतो ज्ञानमुपजायते तच्छुतज्ञानं भवति तस्य शब्दार्थपरिज्ञानरूपत्वादथ च मतिज्ञानमभिधीयमानं वर्तते तत्कथमादेशः इति सूत्रादेशो व्याख्यातः?, तदयुक्तं, सम्यग् वस्तुतत्त्वापरिज्ञानात् , इह हि श्रुतभावितमतेः श्रुतोपलब्धेष्वपि अर्थेषु सूत्रानुसारमन्तरेण येऽवग्रहहापायादयोबुद्धिविशेषाः प्रादुष्ष्यन्ति ते मतिज्ञानमेव, न श्रुतज्ञानं, सूत्रानुसारनिरपेक्षत्वात् , आह च भाष्यकृत्-"आदेसोत्ति व सुत्तं सुओवलद्धेसु तस्स मइनाणं । पसरइ तब्भावणया विणावि सुत्ताणुसारेणं ॥१॥” एवं क्षेत्रादिष्वपि वाच्यं, नवरं तान् सर्वथा न पश्यति, तत्र क्षेत्र लोकालोकात्मकं, कालः सर्वाद्धारूपोऽतीतानागतवर्तमानरूपो वा, भावाश्च पञ्चसङ्ख्या औदयिकादयः, तथा चाह१ आदेश इति वा सूत्रं श्रुतोपलब्धेषु तस्य मतिज्ञानम् । प्रसरति तद्भावनया विनाऽपि सूत्रानुसारेण ॥1॥ २० ॥१८४॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy