________________
नामाज्ञानमिति, ज्ञानांशरूपा चेहा, ततः सा कथमज्ञानरूपा भवितुमर्हति ?, नवीहापि किमयं शाङ्खः किंवा
प्रति बो
दृष्टान्तोशारैः ? इत्येवंरूपतया प्रवर्तते, संशयोऽपि चैवमेव, ततः कोऽनयोः प्रतिविशेषः?, उच्यते, इह यत् ज्ञानं शाङ्खशा-131
मल्लकदिविशेषाननेकानालम्वते न चासद्भूतं विशेषमपासितुं शक्नोति, किन्तु सर्वात्मना शयानमिव वर्तते-कुण्ठीभूतं दृष्टनतश्च प्रतिष्ठतीत्यर्थः, तदसद्भूतविशेषापर्युदासपरिकुण्ठितं संशयज्ञानमुच्यते, यत्पुनः सद्भूतार्थविशेषविषये हेतूपपत्तिव्यापार- सू. ३६
तया सद्भूतार्थविशेषोपादानाभिमुखमसद्भूतविशेषत्यागाभिमुखं च तदीहा, आह च भाष्यकृत्-"जमणेगत्थालं- ५ वणमपज्जुदासपरिकुंठियं चित्तं । सयइव सबप्पणओ तं संसयरूवमन्नाणं ॥ १॥ जं पुण सयत्थहेऊववत्तिवावारत-18 |प्परममोहं । भूयाभूयविसेसादाणचायाभिमुहमीहा ॥२॥” इह यदि वस्तु सुबोधं भवति विशिष्टश्च मतिज्ञानावरणक्षयोपशमो वर्तते ततोऽन्तर्मुहूर्त्तकालेन नियमात्तद्वस्तु निश्चिनोति, यदि पुनर्वस्तु दुर्बोधं न च तथाविधो विशिष्टो मतिज्ञानावरणक्षयोपशमस्तत ईहोपयोगादच्युतः पुनरप्यन्तर्मुहूर्त्तकालमीहते, एवमीहोपयोगाविच्छेदेन प्रभूतान्यन्त| मुहूर्त्तानि यावदीहते, तत ईहानन्तरं जानाति-अमुक एषोऽर्थः शब्द इति, इदं च ज्ञानमवायरूपं, ततोऽस्मिन् ज्ञाने हैं। प्रादुर्भवति 'ण'मिति वाक्यालङ्कारेऽपायं प्रविशति, ततः 'से' तस्य उपगतम्-अविच्युत्या सामीप्येनात्मनि परिणतं .
SARSES
१ यदनेकार्थालम्बनमपयुदासपरिकुण्ठितं चित्तम् । शेत इव सर्वात्मना तत् संशयरूपमज्ञानम् ॥ १॥ यत्पुनः सदर्थहेतूपपत्तिव्यापारतत्परममोघम् । भूताभूतविशेषादानत्यागाभिमुखमीहा ॥२॥
Jain
USC
rational
For Personal & Private Use Only
www.jainelibrary.org