________________
किन्तु प्रथमत एव शब्दापायज्ञानमुपजायते, सूत्रेऽपि चाव्यक्तमिति शब्दविशेषणं कृतं, ततोऽयमों व्याख्येयः-२
प्रतिबोधक* अव्यक्तम्-अनवधारितशाङ्खशा दिविशेषं शब्दं शृणुयादिति, इदं च व्याख्यानमुत्तरसूत्रमपि संवादयति-'तेण टान्तो
सदोत्ति उग्गहिए' तेन-प्रमात्रा शब्द इत्यवगृहीतं, 'नो चेव णं जाणइ के वेस सद्दाई' न पुनरेवं जानाति-कः मलकएष शब्दः शाङ्खः शाङ्ग इति वा ?, शब्द इत्यत्रादिशब्दाद्रसादिष्वप्ययमेव न्याय इति ज्ञापयति, तत ईहां प्रविशति
दृष्टान्नश्च इत्यादि सर्व सम्बद्धमेव, तदेतदयुक्तं, सम्यग् वस्तुतत्त्वापरिज्ञानात् , इह हि यत्किमपि वस्तु निश्चीयते तत्सवमीहा- सू. ३६ पूर्वकम् , अनीहितस्य सम्यग निश्चितत्वायोगात , न खलु प्रथमाक्षिसन्निपाते सत्यधूमदर्शनेऽपि यावत् किमयं धूमः? किंवा मसकवर्तिरिति विमृश्य धूमगतकण्ठक्षणनकालीकरणसोष्मतादिधर्मदर्शनात् सम्यग्धूमत्वेन न विनिश्चिनोति हातावत् स धूमो निश्चितो भवति, अनिवर्तितशङ्कतया तस्य सम्यनिश्चितत्वायोगात् , तस्मादयश्यं यो वस्तुविशेषनि-11
चयः स ईहापूर्वकः, शब्दोऽयमिति च निश्चयो वस्तुविशेषनिश्चयो, रूपादिव्यवच्छेदात् , ततोऽवश्यमितः पूर्वमीहया 31 भवितव्यं, इहा च प्रथमतः सामान्यरूपेणावगृहीते भवति, नानवगृहीते, न खलु सर्वथा निरालम्बनमीहनं कापि १० भवदुपलभ्यते, न चानुपलभ्यमानं प्रतिपत्तुं शक्नुमः, सर्वस्या अपि प्रेक्षावतां प्रतिपत्तेः प्रमाणमूलत्वाद् , अन्यथा | |प्रेक्षावत्ताक्षितिप्रसक्तेः, तस्मादीहायाः प्रागवग्रहोऽपि नियमाप्रतिपत्तव्यः, अमुमेवार्थ भाष्यकारोऽपि द्रढयति-"ईहि-181
१ ईह्यते नागृहीतं ज्ञायते नानीहितं न चाज्ञातम् । धार्यते तद्वस्तु तेन क्रमोऽवग्रहादिकः ॥१॥
+
Join Education International
For Personal & Private Use Only
www.jainelibrary.org