________________
श्रीमलय
गिरीया
अपायकार्थिकानि सू. ३४
नन्दीवृत्तिः
॥१७६॥
| अत्र श्रोत्रेन्द्रियेणावायः श्रोत्रेन्द्रियावायः, श्रोत्रेन्द्रियनिमित्तमर्थावग्रहमधिकृत्य यः प्रवृतोऽपायः स श्रोत्रेन्द्रि- यापाय इत्यर्थः, एवं शेषा अपि भावनीयाः। 'तस्स णमित्यादि प्राग्वत् , अत्रापि सामान्यत एकार्थिकानि, विशेषचिन्तायां पुनर्नानानि, तत्र आवर्तते-ईहातो निवृत्यापायभावं प्रत्यभिमुखो वर्त्तते येन बोधपरिणामेन स आवर्तनस्तद्भाव आवर्तनता, तथा आवर्तनं प्रति ये गता अर्थविशेषेपूत्तरोत्तरेषु विवक्षिता अपायप्रत्यासन्नतरा बोधविशेषास्ते प्रत्यावर्त्तनाः तद्भावः प्रत्यावर्तनता, तथा अपायो-निश्चयः सर्वथा ईहाभावाद्विनिवृत्तस्यावधारणा-अबधारितमर्थमवगच्छतो यो बोधविशेषः सोऽपाय इत्यर्थः, ततस्तमेवावधारितमर्थ क्षयोपशमविशेषास्थिरतया पुनः, पुनः स्पष्टतरमवबुध्यमानस्य या बोधपरिणतिः सा वुद्धिः, तथा विशिष्टं ज्ञानं विज्ञानं-क्षयोपशमविशेषादेवावधारितार्थविषय एव तीव्रतरधारणाहेतुर्बोधविशेषः, 'सेत्तं अवाए' इति निगमनम् ।
से किं तं धारणा ?, धारणा छव्विहा पण्णत्ता, तंजहा-सोइंदिअधारणा चक्खिदिअधारणा घाणिदिअधारणा जिभिदिअधारणा फासिंदिअधारणा नोइंदिअधारणा। तीसे णं इमे एगद्विआ नाणाघोसा नाणावंजणा पंच नामधिज्जा भवंति, तंजहा-धारणा साधारणा ठवणा पइट्टा कोटे, से तं धारणा ॥ (सू. ३४)
॥१७६॥ २४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org