________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥१६३॥
मित्रं बलीवर्दी याचित्वा हलं वाहयति, अन्यदा च विकालवेलायां तावानीय वाटके क्षिप्तौ स च वयस्यो भोजनं कुर्वन्नास्ते, ततः स तस्य पार्श्वे न गतः केवलं तेनापि तौ दृष्ट्याऽवलोकिताविति स स्वगृहं गतः, 'चवलीवद वाटकान्निःसृत्यान्यत्र गतौ, ततोऽप्यपहृतौ तस्करैः, स च बलीवर्दवामी तमकृतपुण्यं वराकं वलिवद याचते, स च दातुं न शक्नोति, ततो नीयते तेन राजकुलं, पथि च गच्छतस्तस्य कोऽप्यश्वारूढः पुरुषः सम्मुखमागच्छति, स चावेन पातितः, अश्वश्च पलायमानो वर्त्तते, ततस्तेनोक्तम् - आहन्यतामेष दण्डेनाश्व इति तेन चाकृतपुण्येन सोऽवो मर्मण्याहतः, ततो मृत्युमुपागमत्, ततस्तेनापि पुरुषेण स वराको गृहीतः, ते च यावन्नगरमायातास्तावत्करणमुत्थितमितिकृत्वा ते नगरवहिष्प्रदेशे एवोषिताः, तत्र च बहवो नटाः सुप्ता वर्त्तन्ते स चाकृतपुण्योऽचिन्तयत् - यथा नास्मादापत्समुद्रात् मे निस्तारोऽस्तीति वृक्षे गलपाशेनात्मानं बद्धा म्रियेयेति तेन तथैव कर्तुमारब्धं परं जीर्णदण्डवत्रखण्डेन गले पाशो बद्धः, तच्च दण्डीवस्रखण्डमतिदुर्बलमिति त्रुटितं ततः स वराकोऽधस्तात्सुप्तनटमहत्तरस्योपरि पपात, सोऽपि च नटमहत्तरस्तद्भाराक्रान्तगलप्रदेशः पञ्चत्वमगमत् ततो नटैरपि स प्रतिगृहीतः गताः प्रातः सर्वेऽपि राजकुलं कथितः सर्वैरपि स्वः स्वः व्यतिकरः, ततः कुमारामात्येन स वराकः पृष्टः, सोऽपि दीनव - दनोऽवादीद् - देव ! यदेते ब्रुवते तत्सर्वं सत्यमिति, ततः तस्योपरि सञ्जातकृपः कुमारामात्योऽवादीत् - एप वलीवदौं तुभ्यं दास्यति, तव पुनरक्षिणी उत्पादयिष्यति, एष हि तदैवानृणो बभूव यदा त्वया चक्षुर्भ्यामवलोकितौ बली
Jain Educational
For Personal & Private Use Only
वैनयिकी
बुद्धुदाहरणानि
२०
॥ १६३॥
२५
www.jainelibrary.org