________________
श्रीमलय-
गिरीया
नन्दीवृत्तिः
॥१६॥
ततस्तथा तत्खण्डं सीवितं यथा न केनापि लक्ष्यते, भणिताश्च परराष्ट्रराजकीयाः पुरुषाः-एतदभङ्क्त्वा इतो अगदरथिकरत्नानि गृहीतव्यानि, न शक्तं तैरेवं कर्तुं । पादलिप्तसूरीणां वैनयिकी बुद्धिः ९ । 'अगए'त्ति क्वचित्पुरे कोऽपि राजा, ग दृष्टान्ती स च परचक्रेण सर्वतो रोखुमारब्धः, ततस्तेन राज्ञा सर्वाण्यपि पानीयानि विनाशयितव्यानीति विषकरः सर्वत्र पा-13 तितः, तत कोऽपि कियद्विपमानयति, तत्रैको वैद्यो यवमानं विषमानीय राज्ञः समर्पितवान्-देव ! गृहाण विषमिति, राजा च स्तोकं.विषं दृष्ट्वा चुकोप तस्मै, वैद्यो विज्ञपयामास-देव ! सहस्रवेधीदं विषं तस्मादप्रसादं मा कार्षीः, राजाऽवादीत्-कथमेतदवसेयं, स उवाच-देव ! आनाय्यतां कोऽपि जीर्णो हस्ती, आनायितो राज्ञा हस्ती, ततो वैद्यन तस्य हस्तिनः पुच्छदेशे वालकमेकमुत्पाट्य तदीयरन्ने विषं सञ्चारितं, विपं च प्रसरमाददानं यत्र यत्र प्रसरति तत्तसर्व विपन्नं कुर्वत् दृश्यते, वैद्यश्च राजानमभिधत्ते-देव! सर्वोऽप्येष हस्ती विषमयो जातः, योऽप्येनं भक्षयति | सोऽपि विषमयो भवति, एवमेतद्विपं सहस्रवेधि, ततो राजा हस्तिहानिदनचेतास्तं प्रत्यवाच-अस्ति कोऽपि हस्तिनः। प्रतिकारविधिः?, सोऽवादीत-बाढमस्ति, ततस्तस्मिन्नेव वालरन्ध्रेऽगदः प्रदत्तः, ततः सर्वोऽपि झटित्येव प्रशान्तो।
।।१६२॥ विपविकारः, प्रगुणीबभूव हस्ती, तुतोष राजा तस्मै वैद्याय । वैद्यस्य वैनयिकी बुद्धिः १० । 'रहिए गणिया यत्ति स्थूल-18 | भद्रकथानके रथिकस्य यत् सहकारफललुम्बित्रोटनं यच्च गणिकायाः सर्पपराशेरुपरि नर्त्तनं ते द्वे अपि वैनयिकीबुद्धि- २५ फले ११-१२। 'सीये'त्यादि, क्वचित्पुरे कोऽपि राजा, तत्पुत्राः केनाध्याचार्येण शिक्षयितुमारब्धाः, ते च तस्मै आचार्याय
Jain Education
For Personal & Private Use Only
Marainelibrary.org