________________
प्रभूते च कालेऽतिक्रान्ते निक्षेपग्राही तस्मान्नवलकात् जात्यसुवर्णमयान् पणान् गृहीत्वा हीनवर्णकसुवर्णपणान् ताव-15 त्सङ्ख्याकान् तत्र प्रक्षिप्तवान् , तथैव च स नवलकस्तेन सीवितः, कतिपयदिनानन्तरं स नवलकखामी देशान्तरादा
औत्पत्ति
क्यां भिक्षु गतः, तं च नवलकं तस्य पार्थे याचितवान् , सोऽपि नवलकं समर्पयामास, परिभावितं तेन मुद्रादिकं, तथैव दृष्ट,
स्थानिका ततो मुद्रां स्फोटयित्वा यावत्पणान् परिभावयति तावद्धीनवर्णकसुवर्णमयान् पश्यति, ततो बभूव राजकुले व्यवहारः, पृष्टः कारणिकैः-कः कालः आसीत ? यत्र त्वया नवलको मुक्त इति, नवलकखामी आह-अमुक इति, ततः कारणिकेरक्त-स चिरन्तनकालोऽधुनातनकालकृताश्च दृश्यन्तेऽमी पणाः, ततो मिथ्याभाषी नूनमेप निक्षेपग्राहीति दण्डितो, दापितश्चेतरस्य तावतः पणानिति।कारणिकानामौत्पत्तिकी बुद्धिः२१॥ भिक्खु'त्ति भिक्षूदाहरणं, तद्भावनाकोऽपि कस्यापि भिक्षोः पार्थे सुवर्णसहस्र निक्षिप्तवान् , कालान्तरे च याचते, स च भिक्षुर्न प्रयच्छति, केवलमद्य || कल्ये वा ददामीति प्रतारयति, ततस्तेन छुतकारा अवलगिताः,ततस्तैःप्रतिपन्नं-निश्चितं तव दापयिष्यामः, ततो द्यूत-18 कारा रक्तपटवेषण सुवण्णखुट्टिका गृहीत्वा भिक्षसकाशं गता वदन्ति च-वयं चैत्यवन्दनाय देशान्तर यियासवो यूयं
च परमसत्यतापात्रमत एताः सुवर्णखोटिका यष्मत्यार्थ स्थास्यन्ति, एतावति चविसरे पूर्वसङ्केतितः स पुरुष आगतो, लायाचते स्म च-भिक्षो ! समर्पय मदीयां स्थापनिकामिति, ततो भिक्षुणाऽभिनवमुच्यमानसुवणेखुट्टिकालम्पटतया 31
समर्पिता तस्य स्थापनिका तस्मै मा एतासामहमनाभागी जायेयेतिबुद्ध्या, तेऽपि च द्यूतकाराः किमपि मिषान्तरं
dain Education International
For Personal & Private Use Only
www.jainelibrary.org