SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ रस्ततः ते परान् सत्त्वान् व्यापाद्य पुण्यमुपार्जयेयुः, व्यापादिताश्च परवधे अप्रसक्ता इति व्यापादनं पुण्योपार्जना-2 न्तरायकरणं, न च पुण्योपार्जनान्तरायकृत् पुण्यमुपार्जयति , विरोधात् सर्वस्य पुण्यबन्धप्रसक्तेश्व; एतेन यदुक्तं-'परिणामसुन्दरं च दुःखितसत्त्वानां व्यापादन मिति तदसिद्धं द्रष्टव्यम् , पुण्योपार्जनान्तरायकरणेन परिणामसुन्दरत्वायोगात् , अथ कर्मक्षय इति पक्षः, ननु तत्कर्म किं सहेतुकमुताहेतुकं ?, सहेतुकमपि किमज्ञानहेतुकमुताहिंसाजन्यमुताहो वधजन्यं?, तत्र न तावदज्ञानहेतुकम् , अज्ञानहेतुकतायां हिंसातो निवृत्त्यसम्भवात् , यो हि यनिमित्तो दोषःस तत्प्रतिपक्षस्यैवासेवायां निवर्त्तते, यथा हिमजनितं शीतमनलासेवनेन, न चाज्ञानस्य हिंसा प्रतिपक्षभूता, किन्तु सम्यग्ज्ञानं, तत्कथमज्ञानहेतुकं कर्म हिंसातो विनिवर्त्तते ?, अथाहिंसाजन्यमिति वदेत् , तदपि न युक्तम् , एवं सति मुक्तानामपि कर्मबन्धप्रसक्तेः, तेषामहिंसकत्वात् , अथ हिंसाजन्यं, यद्येवं तर्हि कथं हिंसात एव तस्य निवृत्तिः, न हि यत एव यस्य प्रादुर्भावः तत एव तस्य निवृत्तिभवितुमर्हति, विरोधात्, न खल्वजीर्णप्रभवो रोगो मुहुरजीर्णकरणात् निवर्त्तते, ततः प्राणिहिंसोत्पादितकर्मनिवृत्त्यर्थमवश्यमाहिसाऽऽसेवनीया, उक्तं च-"तम्हा पाणिवहोवजियस्स कम्मस्स खवणहेऊओ। वहविरई कायवा संवररूवत्ति नियमेणं ॥१॥" अथाहेतुकं, न तर्हि तदस्ति, खरविषाणवत्, तत्कथं तदपगमाय प्राणिवधोद्यमो भवतः?, अथाहेतुकमप्यस्ति | यथाऽऽकाशं, ताकाशस्येव तस्यापि न कथञ्चन विनाश इत्यफलत्वात् न कार्यः प्राणिवधः, यदप्युक्तं-ये, १ तस्मात्प्राणियधोपार्जितस्य कर्मणः क्षपणहेतुतः । वधविरतिः कर्तव्या संवररूपेति नियमेन ॥१॥ Jain Educ a tional For Personal & Private Use Only animaw.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy